Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 87
________________ ५८ व्याख्या-वा एवार्थे । हे ऋद्धमान ! ऋद्धः समृद्धः प्रमाणातीतो 'बुधिं मनिंच् ज्ञाने' [१२६३] इति मननं मानो ज्ञानं यस्य स ऋद्धमानस्तस्य सं० हे ऋद्धमान ! जिन !। ताम्रायन्नख ! ताम्रवदाचरणं कर्तुः क्विपि धातुत्वात् “शंसि प्रत्ययात्" [५ । ३ । १०५] इ[सि] 'अ' प्रत्यये ताम्रा ताम्रवदाचरणम् ताम् 'इण्क् गतौ' [१०७५] इत्यतो शतरि यन् गच्छन् नखं यस्य स ताम्रायन्नस्वः तस्य सं० त्वम् । प्रपूर्वाद् 'दयि दान-गति-हिंसा-दहनेषु' [७९९] इति, अतः क्तौ " य्वोः प्वय०" [४ । ४।१२१] इति यलोपे “अतः" [४ ।३। ८२] इति अल्लोपे “अघोषे प्रथमोऽशिटः" [१ ! ३ । ५०] इति दस्य तस्वे प्रत्तिहिंसा तस्याम् ऊहो विचारः स एव शलभः पतङ्गः तस्य प्लोषो दाहस्तस्मिन् प्रदीपो दीपस्तद्वदाचरन्ति क्यङि क्विपि षष्ठ्या बहुवचने आमि"लुगातोsनापः"[२।१।१०७]इति आलोपे 'प्रदीपाम्-प्रदीपवदाचरताम्-दयावताम्-इत्यर्थः -पुरुषाणां सिद्धये स्तादेव-भव एव-इत्यर्थः । त्वं किं० "मण्डलः भुजङ्गभेदे परिधौ शुनि हादशराजके" [ हैम० अनेका० सं० त्रिस्वरकां० श्लो० १२७५] इति अनेकार्थवचनाद् मण्डलं श्वानमिवाचरति गणयति "आधाराच्चोपमानादाचारे" [३ । ४ । २४] इति क्यनि "क्यनि"[४।३।११२] "इति ईकारे क्विपि "अतः"[४।३।८२] इति अल्लोपे "प्वोः प्वय०"[४।४।१२१]इति यलोपे मण्डलीः । कस्य ? कुः पृथ्वी तस्यां रो वैश्वानरःतद्वद् असति शोभते क्विपि कुराः पृथ्वीजनमनःसन्तापकत्वात् । ईदृशी अता अलक्ष्मीर्यस्मात् स कुरायतः, ईदृशो यः इः कामः तस्य कुरायते:-अयमर्थः यथा श्वा तुच्छपराक्रमो जनैहाद् बहिर्निष्कास्यते तथा त्वयाऽपि कामः शरीराद् बहिरित्यर्थः॥ ५२॥ इति वृत्तषट्केन सामान्यजिनं वर्णयित्वा प्रसिद्धं वर्णयति-तथाहि - सिद्धये वर्धमानः स्तात् ताम्रा यमखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाइकुरायते ॥५३॥ ['सिद्ध ! येवैध ! मानस्ताऽऽत्ताऽम्रा पॅन ने खमण्डली। प्रत्यूहशलभप्लोषे दीप ! दीपाकुराऽयते ॥५३॥] [१ हे सिद्ध ! । २ हे येवर्ध ! इ+वन्-एव । ई+एव-येव+ऋद्ध-येवर्ध ! । ३ मनस्त-मानस्त +आत्त+अम्ला:-मानस्तात्ताऽम्राः प्रथमैकवचनम् । ४ यन्-प्रथमैकवचनम्-इ+अत्-यत्-यन् । ५नः -अस्माकम् । ६ख मण्डलीप्रथ मान्तम् । ७ दीप+अङ्कुर-दीपाकुर ततः नामधातुरूपं क्रियापदम् पञ्चम्या द्वितीयपुरुषैकवचनम् । ८ दीपाकुर+अयतेः दीपाकुरायते; प्रथमान्तम् । अय+तेव अयते इति एकारान्तं पदम् । ] 1 'दीप्रदीपाम्' इति युक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148