Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 112
________________ [१।४ । ४२ ]इति एत्वम् । यथा रात्रौ कमलानि निःश्रीकाणि भवन्ति, तथा अस्मिन् प्रत्यूहा अपीत्यर्थः । तथा हे अदीप्रदीप ! न विद्यते 'दी' इति वर्गों यस्मिन् स अदीः ईदृशश्चासौ प्रदीपश्च अदीप्रदीप ! एतावता प्रपः-रक्षकः-प्राणिनामिति शेषः-तस्य सं० हे प्रप ! रक्षक ! त्वम् अङ्कुर नवीनोद्गतजलादेः प्ररोहवत् आचर-इत्यर्थः । यथा अङ्करो दिनं दिनं वृद्धि याति, तथा त्वमपीत्यर्थः । त्वं किं० सिद्धयेवर्धमानस्तात्ताम्रायन् । सिद्धा सम्पन्ना या लक्ष्मीर्यस्य स सिद्धयः, ईदृशो य इभ्यः सिद्धयेभ्यस्तं धनधान्यादिमनोऽभिमतप्राप्त्यर्थमाख्याति णिजि क्विपि तयोर्लोपे “ पदस्य " [२।१। ८९ ] इति यलोपे सिद्धयेब् ईदृशो यः · अर्द गति-याचनयोः' [ ३०१] इत्यतः क्विपि “ रात् सः " [२ । १ । ९० ] इति दलोपाभावे अ याचकजनः सिद्धयेब, तस्य हो हस्तः सिद्धयेबर्धः तस्मिन् मा लक्ष्मीः “ अनः शकटं भोजनम् अन्नं च" [ उणादिसूत्र ९५२ ] इति उणादिवचनात्-अनो भोजनं यस्य स सिद्धयेबर्धमानाः तस्य भावे तलि सिद्धयेबर्धमानस्ता तस्या आत्तं स्वीकारः तेन न म्लायतीति शतरि सिद्धयेबर्धमानस्तात्ताम्लायन् । कोऽर्थः ? लक्ष्मीसमृद्धमहेभ्यप्रार्थकार्थिसार्थहस्तदत्तलक्ष्मी-भोजनादितया अम्लानः इत्यर्थः । पुनः किं० ? नखैः कृत्वा मण्डं भूषां लीयसे श्लिष्यसीति क्विपि नवमण्डलीः सामुद्रिकशास्त्रोक्तलक्षणनखशोभित इत्यर्थः ॥७६॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपावरायते ॥ ७७॥ ['सिद्धयेवैर्धमानस्ताऽऽत्ताऽऽम्रा यन्नखमन् ! डेली । "प्रत्यूह-शल-भप्लो षेदीम ! दोपाङ्करा यते ॥ ७७ ॥] [१ हे सित् ! संबोधनम् । २ धयेव इति 'धे' धातोः सप्तम्याः अस्मत्पुरुषद्विवचनं क्रियापदम् । ३ ऋधमानः षष्ठ्या एकवचनं यतेः इत्यस्य विशेषणम् । ऋ+धा-ऋध+मान+णिच +क्विपू-ऋधमान् तस्य । सित्+धयेव+ऋधमानः सिद्धये वर्धमानः इति । ४ ता+आत्त+आम्र= ताऽऽत्ताऽऽम्राः द्वितीयाबहुवचनम् डलीः इत्यस्य विशेषणम् 'धयेव' इत्यस्य च कर्मरूपम् । ५ अन्न ख+मन्द+णिच्+क्षिप् अन्नखमन् ! संबोधनम् । ० तात्ताम्रास+अन्नखमन् ! तात्ताम्रायन्न खमन् । । ६ डलीः द्वितीयाबहुवचनं कर्म । ७ प्रति+ऊह+शर+भ+प्लु-प्रत्यूहशलभप्लौः तस्य षष्ठ्या एकवचने प्रत्यूहशलभप्लोः । ८ षा+ईषे+दीप्रषेदीप्र ! संबोधनम् । ९ दीपाङ्कराः द्वितीयाबहुवचनम्, डलीः इत्यस्य विशेषणम् । १० यतेः इति पष्ठयन्तमेकवचनम् ।] व्याख्या-कश्चिदिभ्यः श्राद्धः कञ्चिदिभ्यं श्राद्धं प्रति धर्मालापं करोति-तथाहि -हे षेदीप्र ! इभ्य ! “पः श्रेष्ठे" [ ] इत्येकाक्षरात् षा श्रेठा ई लक्ष्मीस्तया दीप्रः सकल जने दीप्यमानः तस्य सं० । 'षिधू गत्याम्' [ ३२० ] गत्यर्थानां ज्ञानार्थत्वात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148