Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 111
________________ [१२५२] ईयते श्रयतीति क्विपि ताम्रायन्नखमण्डलीः तस्याः सं० । अत एव हे दीप्रदीपाङ्कुरायते ! दीपाङ्कुरा इव प्रदीपा इव, तद्वद् देदीप्यमानत्वाद् दीपाकुराः सिद्धाः तेषाम् आयतिर्विस्तारः प्रभावो वा दीपाङ्कुरायतिः । दीप्रा दीपाङ्कुरायतिर्यस्यां सा दीप्रदीपाङ्कुरायतिस्तस्याः सं० । तथा हे अभप्लोषे ! न भाति "क्वचित्" [५।१।१७१] इति डे अभः अशोभमानः अविद्यमान इति यावत् । 'प्लुवू दाहे' [ ५३३] "इकिश्तिव्०" [५।३। १३८] इति इप्रत्यये प्लोषिर्दाहः सन्तापः-यस्यां सा अभप्लोषिः, तस्याः सं० । त्वं नः अस्माकं संबन्धिनी स्तात्-भव-इति क्रियासंबन्धः । त्वं किं० प्रत्यूहा विघ्ना जन्मजरा-मरणादयस्तान् शटसि क्षयं नयसि विपि प्रत्यूहशडू ड-लयोरक्याल्लत्वं प्रत्यूहशछ । पुनः किं० एवर्धमा "एवः केवलः" [ उणादिसूत्र ५०५ ] इत्युणादिवचनात् । एवाः सर्वकर्मविमुक्तत्वेन केवला ऋद्धाः समृद्धाः तेषां मा इव लक्ष्मीरिव एवर्धमासिद्धानां मुक्तिरेव लक्ष्मीरिति ॥७५|| इति श्रीजिनशासनानुगामितीर्थकर-तीर्थाद्याराधनोभूतां सिद्धिं वर्णयित्वा जैनमतानुगामिनं श्राद्धं वर्णयति-तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। . प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥ ७६ ॥ [ सिद्धये वर्धमाऽनस्ताऽऽत्ताऽम्रायन् नखमण्डलीः । *प्रत्यूहशलभप्लोषे ! ऽदीप्रदीपाङ्कुराऽयते ! ॥ ७६ ॥] [१ सिद्ध+या सिद्धय+इभ्य + सिद्धयेभ्य+णि+क्विप्=सिद्धयेब्+अर्द-सिद्धयेब+ह सिद्धयेबर्द्ध +मा+अनस्-सिद्धयेबर्द्धमाऽनस्+ता=सिद्धये बर्द्धमानस्ता+आत्त+अम्लायत्-सिद्धयेबर्द्धमाऽनस्ताऽऽत्ताऽम्लायत्-सिद्धयेवर्धमानस्तात्ताम्रायत् । ३ नख+मण्ड+ली नखमण्डलीः-नखमण्डली । ४ प्रति+ ऊह-प्रत्यूह+शर-प्रत्यूहशर+भू-प्रत्यूहशरभ%प्रत्यूहशलभ । प्र+उषा-प्रोषा-प्लोषा । प्रत्यूहशलभ+ प्लोषा-संबोधनम्-प्रत्यहशलभप्लोषे ! । ५ 'दीप्रदीप'शब्दात् 'दी'वर्णस्य निष्कासने 'प्रप' इति । तस्य संबोधनम् प्रप! इति । ६ दीप्रदीपाङ्कर इत्यत्र 'अङ्कुर' इति नाम्नः धातुत्वे आचारार्थे क्विपि द्वितीयपुरुषकवचने पञ्चम्या 'हि' प्रत्ययान्तम् क्रियापदम् । ७ अयते ! संबोधनम् । ] व्याख्या---शब्दानां विरोध्यर्थप्रतिपादकत्वाद् न यतिः अयतिः श्राद्धः' असुखं दुःखम् ' इतिवत्-तस्य सं० हे अयते ! श्राद्ध ! हे प्रत्यूहशल[ भ-] प्लोषे ! प्रत्यूहाः प्रतिकूला ऊहाः परस्त्रीगमनादिविषये दुष्टा मतिविलासास्त एव शरं जलं तस्माद् भवन्ति " क्वचित् " [५ । १ । १७१ ] डे शलभानि कमलानि तेषु विषये प्रकृष्टा उषा इव रात्रिरिव प्रत्यूहशलभप्लोषा तस्य सं० " एदापः " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148