Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 102
________________ तल्लोपे “य्वोः प्वय०" [४।४।१२१] इति यलोपे ईः कामवदाचरन् । कया ? 'निइंधैप् दीप्तौ' [१४९८ ] क्विपि इत् दीप्ता, या ई लक्ष्मीः शोभा तां प्राति पूरयति "आतो डः०" [५।१७६] इति डे इदीना या दीप्रकान्तिः, तया रूपश्रिया कामसदृश इत्यर्थः । दीपा किं० ताम्रो रक्तवर्णः स इवाचरतीति क्यङि क्विपि तल्लोपे तृतीयाटावचने "लुगातोऽनापः" [२।१।१०७] इति आलोपे ताम्रा रक्तया इत्यर्थः । पुनः किं० अः कृष्णस्तेनाप्तभूतेन भान्ति डे अभाः मैथ्यात्विकाः, तान् प्लोषति दहति निष्प्रभावीकरोतीति यावत् विचि "लघोरुपा"० [ ४।३।४] इति गुणे अभप्लोट तया अभप्लोषा । सिद्धये किं० अङ्कुरं रुधिरम् अस्यति क्षिपति अर्थात् कामिनामिति क्विपि अङ्कुराः । ईदृशो य इः कामस्तं न तायते न पालयति विपि तल्लोपे चतुर्थ्याम् "लुगातोऽनापः" [२।१।१०७ ] इति अलोपे अङ्कुरायते । वर्धमा किं० प्रतयो लिखिताः सिद्धान्तादि यत्र संचयात् , उपचारात् तत्र लिखितं सिद्धान्ताद्यपि, यस्मिन् ऊहो विचारः पठनादिविषये तं 'शल्भि कत्थने' [ ७७२] इति शल्भते श्लाघते क्विपि सौ "पदस्य" [२।१।८९ ] इति भलोपे प्रत्यूहशल् ॥६६॥ इत्यर्थद्वयेन पण्डितं व्यावर्ण्य कविः स्वगुरुमेव वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥६७॥ [सिद्धयेवर्धमानः स्तात् ताम्रा यन्नखमण्डलीः। 'प्रत्यूहशलभप्लोषे दीदीपाऽङ् कुरा येते !॥६७॥] [१ सिद्धः प्रथमान्तम् । २ एवर्धमानः इ+वन्-एव+ऋद्ध+मान एवर्धमानः प्रथमान्तम् एकवचनम । सिद्धः+एवर्धमानः सिद्धयेवर्धमानः । ३ स्तात् क्रियापदम् । ४ ताम्राः “यन्नखमण्डलीः" इत्यस्य विशेषणम द्वितीयाबहवचनम् । ५ यन्नखमण्डलीः सिद्धः श्रित इत्यर्थः । अत्र 'मण्डली' ज्ञेयम् । ६ प्रति+ऊह+शरभ-प्रत्यूहशलभ+प्लोषे प्रत्यूहशलभप्लोषे । ७ दीप्र+दीप्+अञ्च-दीप्रदीपाङ् । ८ रै-राः । कु+राः कुराः । ९ यते ! संबोधनम् ।] ___व्याख्या-हे यते ! गुरो ! त्वं प्रतिकूला ये ऊहा विमर्शाः त एव मतिविघातकारित्वात्- र-लयोरैक्यात्-शरभा अष्टापदाः तेषां प्लोषे क्षये कुः शब्दो गर्जितम् तेन युक्तो यो " रैः स्वर्णे जलदे घने" [ ] इत्येकाक्षरवचनात् "आ रायो व्यञ्जने" [२।२।५ ] इति आवे रा जलदः स इव 'भव' इति क्रियाशेषः । किम्भूतः त्वम् जलदश्च ? त्वत्पक्षे दीपो दीप्यमानो दीपनं घनि दीपः-कान्तिः-तम् अञ्चति गच्छति क्विपि “अञ्चोऽनर्चायाम्" [४।२।४६] इति नलोपे सौ "अचः" १ ‘लिखिताः सिद्धान्तादि यत्र' इत्यादि वाक्य अर्थशिथिलम् भाषयाऽपि शिथिलम् । १० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148