________________
तल्लोपे “य्वोः प्वय०" [४।४।१२१] इति यलोपे ईः कामवदाचरन् । कया ? 'निइंधैप् दीप्तौ' [१४९८ ] क्विपि इत् दीप्ता, या ई लक्ष्मीः शोभा तां प्राति पूरयति "आतो डः०" [५।१७६] इति डे इदीना या दीप्रकान्तिः, तया रूपश्रिया कामसदृश इत्यर्थः । दीपा किं० ताम्रो रक्तवर्णः स इवाचरतीति क्यङि क्विपि तल्लोपे तृतीयाटावचने "लुगातोऽनापः" [२।१।१०७] इति आलोपे ताम्रा रक्तया इत्यर्थः । पुनः किं० अः कृष्णस्तेनाप्तभूतेन भान्ति डे अभाः मैथ्यात्विकाः, तान् प्लोषति दहति निष्प्रभावीकरोतीति यावत् विचि "लघोरुपा"० [ ४।३।४] इति गुणे अभप्लोट तया अभप्लोषा । सिद्धये किं० अङ्कुरं रुधिरम् अस्यति क्षिपति अर्थात् कामिनामिति क्विपि अङ्कुराः । ईदृशो य इः कामस्तं न तायते न पालयति विपि तल्लोपे चतुर्थ्याम् "लुगातोऽनापः" [२।१।१०७ ] इति अलोपे अङ्कुरायते । वर्धमा किं० प्रतयो लिखिताः सिद्धान्तादि यत्र संचयात् , उपचारात् तत्र लिखितं सिद्धान्ताद्यपि, यस्मिन् ऊहो विचारः पठनादिविषये तं 'शल्भि कत्थने' [ ७७२] इति शल्भते श्लाघते क्विपि सौ "पदस्य" [२।१।८९ ] इति भलोपे प्रत्यूहशल् ॥६६॥
इत्यर्थद्वयेन पण्डितं व्यावर्ण्य कविः स्वगुरुमेव वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥६७॥ [सिद्धयेवर्धमानः स्तात् ताम्रा यन्नखमण्डलीः।
'प्रत्यूहशलभप्लोषे दीदीपाऽङ् कुरा येते !॥६७॥] [१ सिद्धः प्रथमान्तम् । २ एवर्धमानः इ+वन्-एव+ऋद्ध+मान एवर्धमानः प्रथमान्तम् एकवचनम । सिद्धः+एवर्धमानः सिद्धयेवर्धमानः । ३ स्तात् क्रियापदम् । ४ ताम्राः “यन्नखमण्डलीः" इत्यस्य विशेषणम द्वितीयाबहवचनम् । ५ यन्नखमण्डलीः सिद्धः श्रित इत्यर्थः । अत्र 'मण्डली' ज्ञेयम् । ६ प्रति+ऊह+शरभ-प्रत्यूहशलभ+प्लोषे प्रत्यूहशलभप्लोषे । ७ दीप्र+दीप्+अञ्च-दीप्रदीपाङ् । ८ रै-राः । कु+राः कुराः । ९ यते ! संबोधनम् ।]
___व्याख्या-हे यते ! गुरो ! त्वं प्रतिकूला ये ऊहा विमर्शाः त एव मतिविघातकारित्वात्- र-लयोरैक्यात्-शरभा अष्टापदाः तेषां प्लोषे क्षये कुः शब्दो गर्जितम् तेन युक्तो यो " रैः स्वर्णे जलदे घने" [ ] इत्येकाक्षरवचनात् "आ रायो व्यञ्जने" [२।२।५ ] इति आवे रा जलदः स इव 'भव' इति क्रियाशेषः । किम्भूतः त्वम् जलदश्च ? त्वत्पक्षे दीपो दीप्यमानो दीपनं घनि दीपः-कान्तिः-तम् अञ्चति गच्छति क्विपि “अञ्चोऽनर्चायाम्" [४।२।४६] इति नलोपे सौ "अचः"
१ ‘लिखिताः सिद्धान्तादि यत्र' इत्यादि वाक्य अर्थशिथिलम् भाषयाऽपि शिथिलम् ।
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org