________________
७४
[१।४।६९] इति नोऽन्ते “पदस्य" [२।१४८९ ] इति चलोपे "युजञ्चकुञ्चः०" [२।११७१] इति नो ङत्वे दीप्रदीपाङ् । जलदपक्षे दीपो अग्निः अर्थात् इरंमदस्तस्य दीपः-कान्तिः-तमञ्चति इति दीप्रदीपाङ् अत्र 'अङ्कुर' इति शब्दः, अतो
ङ्कारो न दुष्टः । त्वं किं० स इति शेषः । यन्नखमण्डलीयस्य नखश्रेणीः अर्थात् पदयोः कर्म ‘विधू गत्याम्' [३२०] क्ते सिद्धो गतः संश्रितोऽहम् । एवर्धमानः 'इंङ्क अध्ययने' [११०४ ] इति अधीते गुरुसमीपे शास्त्राणि एवा शिष्यवर्गः तस्मिन् ऋद्धं समृद्धं मानं बहुमानं यस्य स एवर्धमानः-सर्वशिष्यमध्ये प्राप्तपूजाबहुमानः-अभूवम्- इति क्रियाशेषः ॥६७॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥६८॥ [सिद्धये वर्धमानस्ताऽऽत्ताऽऽम्रायन् ! नखमंडली ।
|-त्यूहशलभप्लोऽर्षे दीपदीपां कुरांय ! ते" ॥६८॥] [१ सिद्ध+या+ई-सिद्धये इति एकारान्तं पदम् । २ वर्धमान+क्य वर्धमानाय+क्विप्= वर्धमाना इति आकारान्तं पदम् । तस्य षष्टयेकवचने वर्धमानः । ३ त+अत्ता-बहुव्रीहिसमासे तात्त ! संबोधनम् । ४ आम-आम्+र+आयत्-आम्रायत् ! संबोधनम् । ५ नख+मठु नखमठूनखम+अली नखमडली चित्रकाव्यत्वेन अत्र अनुस्वारवृद्धौ ‘नखमण्डली' इति बोध्यम् । ६ अली भ्रमरः । ७ प्र+ति+ऊह+शष्-प्रत्यूहशडू-प्रत्यूहशल । अ+भा-अभ+प्राअभप्रा=अस्य षष्टीविभक्तेः एकवचनम्-अभप्लः । प्रत्यूहशल+अभप्ल:=प्रत्यूहशलभप्ल:+अषे-प्रत्यूहशलभप्लोऽषे । ८ 'अषे' वर्तमानायाः अस्मत्पुरुषैकवचनम् । ९ दीप्रदीपाम् षष्ठीबहुवचनम् । १० कुलायसंबोधनम्-कुराय ! । ११ ते षष्ठया एकवचनम् ।]
__ व्याख्या-दीप्रा या दीपकान्त्यः तासाम्-र-लयोरैक्यात्-हे कुलाय ! मालक ! "पेशीकोशोऽण्डे कुलायः" [१३१९] इति नाममालावचनात् । यथा कुलायः पक्षिणां स्थानम् तथा त्वमपि कान्तीनां स्थानमित्यर्थः । हे आम्रायत् ! आमं रोगं राजयक्ष्मादिकं करोतीति णिजि क्विपि आम् रोगकर्ता यो रः कामस्तम् । 'यतण निकारोप०' [१७३८] इति चुरादियतेनिकारार्थात् णिचोऽनित्यत्वाद् अभावे, आङा योगे
१ अत्र इदं कोशवचनं न सम्यक् समुद्धतम्, हैम-अभिधानचिन्तामणिनाममालायां वचनम्-एवम्-"पेशीकोशोऽण्डे, कुलायो नीडे, केकी तु सर्पभुक्" । अण्डे पेशीकोशः । नीडे कुलायः । केकी सर्पभुक् । इत्येवं शब्दत्रयी अत्र वचने समाविष्टा । ग्रन्थकारोऽयं रभसात् "पेशीकोशोऽण्डे कुलायः' इति वचन निर्दिष्टवान् । इदं वचनं 'पेशीकोशः अण्डम्' इति सूचयति न ग्रन्थकारविवक्षितं नीडवाचकं 'कुलाय' शब्दम् । अतः अत्र पादस्य अंशरूपम् "कुलायो नीडे" इति नाममालावचनं समुचितम् । २ अत्र व्याख्यायां सर्वत्र 'नाममाला'पदेन श्रीहेमचन्द्राचार्यरचिता नाममाला विशेषतः ग्राह्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org