________________
७५
आयतति निराकरोंति क्विपि आम्रायत् तस्य सं० । तथा हे तात्त ! ताश्चौराः कषायादयः, तेषाम्-'अट्टि हिंसातिक्रमयोः' [६७४ ] इत्यतो हिंसात् , किपि अत्, भावे तलि-अत्ता विनाशो यस्मात् स तात्तः तस्य सं० हे तात्त ! गुरो ! अहं ते तव नखेषु-'मठ मद -निवासयोश्च' [२१५] इत्यतो निवासार्थात्-मठामि निवसामि क्विपि नखम नखेषु वसन् सन् । 'अषी गत्यादानयोश्च' [९३१] इति दीप्त्य
र्थाद् वर्तमाना एकवचने अषे दीप्ये-दीप्तो भवामि इत्यर्थः । मड् इत्यनुस्वाराभावो न दोषाय, चित्रकाव्यत्वात् । ते किं० सिद्धान् मुक्तान याति गच्छति आश्रयतीति यावत् विपि सिद्धया मुक्तिः सैव या ई लक्ष्मीः, तस्या "वर्धमानो वीरजिने स्वस्तिकैरण्डविष्णुषु" [ हैम० अने० सं०चतुःस्वरकां० श्लो० १५६१] इति अनेकार्थाद् वर्धमानः इव विष्णुरिव आचरति क्यङि क्विपि तल्लोपे सिद्धयेवर्धमानाः षष्ठ्यां "लुगातोऽनापः" [२।१।१०७] इति आलोपे सिद्धयेवर्वमानः । पुनः किं० प्रकृष्टौ-तिर्गतिः स्वर्गापवर्गादिका, ऊहो बुद्धिगुणभेदः, तयोर्द्वन्द्वे --त्यूही यस्य स प्रत्यूहः श्लेषाद् विसर्गाभावः । तथा 'शष् हिंसायाम्' [५१८] शषन्ति ध्नन्ति जीवान् इति क्विपि "धुटस्तृतीयः" [२।१।७६ ] इति षो डत्वे - ड-लयोरैक्यात् लत्वे-शषो हिंसकास्तेषु न भान्ति "क्वचित्" [५।१।१७१] डे पलभा अहिंसका दयावन्तस्तान् प्राति पूरयति लक्ष्म्यादिवृद्धिकारकत्वेन क्विपि शलभप्राः पश्चाद् विशेषणसमासे प्रत्यूहशलभप्लाः षष्ठयां “लुगातोऽनापः" [२।१। १०७] इति आलोपे प्रत्यूहशलभप्रः र-लयोरैक्यात् । अहं किं० अली इव अली भ्रमरसदृशः पदपद्मसेवकत्वात् मम इति ॥६८॥
इति अर्थद्वयेन निजगुरून् वर्णयित्वा यतीनां देशनारूपां वाणीं वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥६९।। [ सिद्धयेऽबर्धमानस्ताऽत्ताऽम्ला यं न खे-मंडली ।
"प्रत्यूहशलभप्लोदीप्रदीपां कुरीयते ॥६९॥] [१ सिद्ध+या-इन-सिद्धयेन+णिचू-क्षिप्-सिद्धयेन्=सिद्धये प्रथमाया एकवचनम् । २ अप्+ अर्ध-म अम्-अबर्धमम्-अबर्धमन्-अस्य प्रथमैकवचने-अबर्धमा-अवर्धमा ३ अस्ता+अत्ताऽम्लाः अस्ताऽत्ताम्लाः-प्रथमैकवचनम्-अस्ताऽक्ताऽम्राः । ४ .म्राः+अम्रायं । अत्र 'अम्' इति द्वितीयैकवचनम् । ५न-ख-म-नखमम् द्वितीयैकवचनम् । पूर्वोक्तस्य 'अम्' इत्यस्य 'नखमम्'इत्यस्य च 'प्रति' पदेन अन्वयः । ६ डली प्रथमैकवचनम् । ७ 'प्रति' इति पूर्वान्वितम्, ऊह+शल-ऊहशल । ८ अ+भ+प्लो+ष+इत्-अभप्लोषेत्' इदं पदम् 'भाषा शब्द सूचकम् । ९ ई+प्रदीप्-ईप्रदीप षष्ठीबहुवचने ईप्रदीपाम् । .प्लोषेत्+ईप्रदीपाम् = ० प्लोषेदीप्रदीपाम् । १० कुः । ११ आः-आ। कु:+आ+यते-कुरायते । १२ यतेः षष्ठ्या एव पचनम्-यते । ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org