________________
ওই व्याख्या-कुः शब्दो वाचकोऽस्ति । कीदृशः ? अकारेण युक्तो यः स्वग्युक्तो यो भकारः एतावता भा इति वर्णः, तं प्लवते गच्छति श्रयतीति यावत् विचि सौ "ओत औः" [१ । ४ । ९४ ] इति सूत्रेण औकारे अभप्लौः । ईदृशं षकारम् एति क्विपि अभप्लोषेत् एतावता 'भाषा' इति शब्दो वाणीत्यर्थोऽस्तीति । कस्य ? यतेः साधोः संयतस्य । किंवाचकः ? सिद्धा शाश्वती, या लक्ष्मीः, तस्या इनः स्वामी सिद्धयेनो जिनः तम् आख्याति, श्रोतृणाम् तदुपज्ञं सिद्धान्तं वेति णिजि विपि तल्लोपे सौ " दीर्घड्याब्०" [१।४।४५] इति सेलोपे "नाम्नो नो."। २। १ ९१] इति नलोपे सिद्धये । पुनः किं० "क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः " [ ]इत्युक्तेः आपः पानीयमूर्तिः । तथा “ अर्धं दानववैरिणा, गिरिजयाऽप्यध हरस्याऽऽहृतम् ।" [ ] इत्युक्तेः अर्धस्य पार्वत्या गृहीतत्वाद् अधोऽर्धरूपो यो मः शिवः तम् । 'अम शब्द-भक्त्योः ' [३९१ ] इति भजनार्थाद् अमेः अमति भजते क्विपि “मो नो म्वोश्च [२।१ । ६७ ] इति मो नत्वे अबर्धमान् मैथ्यात्विकजनः तस्य 'असी'धातोः क्विपि भावे तलि अस्ता दीप्तिः तस्याः ' अट्टि हिंसा-ऽतिक्रमयोः' [६७४] क्विपि भावे तलि-अत्ता विनाशः तस्यां कर्तव्यायां न म्लायति क्विपि अबधमानस्तात्ताम्लाः । पुनः किं ० 'लड जिह्वोन्मथने' [१०६३ ] णिगि लडयति उन्मन्थयति अवश्यमिति “णिन् चावश्यकाधमर्थे " [५ । ४ । ३६ ] इति णिनि ड-लयोर्व्यत्यये डली उन्मन्थकः। कथं ? प्रति लक्षीकृत्य । कम् ? अं कृष्णम् । तथा पुनः किम्भूतः ? नः ब्रह्मा, खः सूर्यः, मश्चन्द्रः तेषां समाहारद्वन्द्वे न-ख-मं बुद्ध-रवीन्दुप्रमुखमिथ्याग्देवताना प्रभावापहारक इत्यर्थः । पुनः किं० ऊहं विचारम् 'सल गतौ' [ ४३८ ] [ सलति ] गच्छति क्विपि ऊहशलू श-सयोरैक्यात् । पुनः किं० 'आसिक् उपवेशने' [१११९] णिगि आसयति स्थिरीकरोति क्विपि आः स्थिरीकारकः । कासा ? ई लक्ष्मीः प्रदीपः कान्त्यस्तासाम् ॥ ६९ ॥
इति यतिवाणीम् एकार्थेन व्यावर्ण्य श्रीजिनधर्म वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥७०॥ [सिद्धयेऽवर्धमा नः स्तात् ताम्राऽऽयन् न खमण्डली ।
"प्रत्यूहशलभ-प्लोषेदीप्रदीपाङ्करा यते ॥७०॥] । १ सिद्धये चतुर्थ्यन्तम् । २ अव++ध+म+असु-अवर्धमाः प्रथमैकवचनम् एतत् पदम् 'धर्म' शब्दं सूचयति । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ ताम्र+आ+य+क्विपू+शतृ ताम्रायन नामधातोः प्रथमान्तम् । ६ न+खमण्डल+इन् नखमण्डली । ७ प्र+ति-प्रति । प्रति+ऊह+शलकू +णिच्xकिप-प्रत्यूहशल । ८ अ+भ+प्लोष-अभप्लोष+इत्-अभप्लोषेत् । ९ ई+प्रदीप+अङ्कर+असईप्रदीपाकुराः। प्रत्यूहशल+अभप्लोषेत्+ईप्रदीपाकुराः=प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुराः । १० यते:- यते।]
१ अधुनैव ग्रन्थकारः "नः ब्रह्मा" इति सूचितवान् तथापि अत्र 'न' शब्देन 'बुद्धः अभिप्रेतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org