________________
व्याख्या - 'अव रक्षण' [ ४८९ ] इति गत्यर्थाद् अवेः अचि अवो गच्छन् र रकारो यस्मिन् स अवर ईदृशं धम इति वर्णद्वयम् असति आदत्ते क्विपि अवर्धमा एतावता यतेर्जिनेन्द्रस्य धर्मो नः अस्माकं सिद्धये मुक्तये स्तात्-भवतु इति सम्बन्धः । किं० तथावर्णत्वात् ताम्रः रक्तवर्णो यः-"आ विधातरि मन्मथे"[]इत्यनेकार्थवचनात्-आ मन्मथः,तस्मिन् य इव यम इव आचरन् यन् ताम्रायन् । पुनः किं० न खमण्डली नः संवित् तदेव खमण्डलं सूर्यमण्डलं नखमण्डलं तद् विद्यते यस्य "अतोऽनेकस्वरात्" [७२।६ ] इनि नखमण्डली । पुनः किं० प्रकृष्टा तिर्ज्ञानं यस्य स प्रतिर्ज्ञानवान् यत्यादिको जनः तस्य ऊहं विचारमेव शल्कं शरणं करोति णिजि क्विपि प्रत्यूहशलू । पुनः किं ? अः कृष्णस्तथा भानां भ्रमराणाम्-'प्लुषशू स्नेहन ०, [१५६२] इति घञि-प्लोषः स्नेहो यस्मिन् तद् भप्लोष कमलम् असाधारणविशेषणात् अश्च भप्लोषं च अभप्लोषे तौ एति गच्छति क्विपि अभप्लोषेत् ईदृशी या [ई] लक्ष्मीस्तां प्राति पूरयति "आतो ड०" [५।१७६] इति डे अभप्लोषेदीप्रः । या लक्ष्मीः कृष्णे कमले च क्रीडार्थ गच्छति, तां सेवकानां पूरयतीत्यर्थः । तथा दीपाङ्कुरवत् असति शोभते क्विपि दीपाकुराः, विश्वोद्योतकत्वात् । तयोविशेषणसमासे अभप्लोषेदीप्रदीपाकुराः ॥७॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥७१॥ [ 'सिद्धयेऽवर्धमा न: स्तात् ताम्रायन्न खमण्डली ।
प्रत्यूहशलभप्लोषे दीदीपाङ्कुराय-ते ॥७१॥] [१ सिद्धये चतुर्थी । २ अव++ध+म+अस अवर्धमाः । अयं शब्दः 'धर्म' शब्दं सूचयति
३ षष्ठी । ४ क्रियापदम् । ५ ताम्र+अस्=ताम्राः । ई+अन्न-यन्न । ताम्राः+यन्न ताम्रायन्नः । . ६ खमण्डल+इन् खमण्डली । ताम्रायन्न+खमण्डली-ताम्रायन्नखमण्डली । ७ प्रति पा-राय-ते प्रति इति अन्वयः । ऊह+शल-ऊहशल+भ+प्लोषेऊहशलभप्लोषे। प्रति+ऊहशलभप्लोषे प्रत्यूहशलभप्लोषे । ८ दिन+णिच्+क्विपू-दिन-दी प्रथमैकवचनम् । ९ प्र+दा+क्विप-प्रदीः प्रथमैकवचनम् । १० प+अङ्कुर+अय+ता=पाङ्कुरायते द्वितीयाद्विवचनम् । दी+प्रदी+पाङ्कुरायते-दीप्रदीपाङ्कुरायते । ]
व्याख्या-'धम' इति वर्णद्वयम् असति आदत्ते क्विपि धमाः तथा अवः गच्छन् रकारो यस्मिन् स अवर् एतावता धर्मो यतेर्जितेन्द्रियस्य जिनस्येत्यर्थः नः अस्माकं सिद्धये स्तात्-भवतु-इति सम्बन्धः । धर्मः किं० तानं धातुभेदः उपलक्षणत्वात् सुवर्णादि, तेन असति शोभते विवपि ताम्राः सुवर्णादि च दीप्यमाना ई लक्ष्मीः अन्नं धान्यं च यस्मात् स ताम्रायन्नः धर्मेण सकलम् दिक्शोभिता पृथ्वी, अन्नम्-सम्पद्यत इत्यर्थः । तथा खं स्वर्गः तस्य मण्डलं देशो विद्यते यस्य स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org