________________
७२
मांसादिकस्य, यानि मण्डलानि देशाः, तान् इच्छति इति वाक्ये क्यनि किपि अन्नखमण्डलीः, साधूनां त एव देशा द्रष्टव्याः येषु धान्यमेव खाद्यते इति । प्रत्यूहा विनास्तत्कारिणः परीषहा अप्युपचारात् प्रत्यूहाः-तान् श-सयोरैक्यात्-सहते क्विपि "हो धुद-पदान्ते" [२।१।८२] इति ढत्वे, “धुटस्तृतीयः" [ २।१७६ ] इति डत्वे-ड-लयोरक्याल्लत्वे-प्रत्यूहशल् । पुनः किं० न विद्यते भा प्रभावो यस्य स अभो निष्प्रभावः प्लोषो दहनं पीडनं यस्य स अभप्लोषः, ईदृशः इ: कामो यस्मात् स अभप्लोषेः । तथा दीपो दीप्यमानो दीपाङ्कुरः प्रदीपः तद्वद् असति शोभते क्विपि दीप्रदीपाङ्कुराः । पश्चाद् द्वयोविंशेषणसमासे अभप्लोषेदीप्रदीपाकुराः ॥६५॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥६६॥ ['सिद्धये वर्धमा नः स्तात् ताम्रा यन्नखमण्डली ।
*प्रत्यूहशलऽभप्लोषेदीप्रदीपाडुरायते ॥६६॥] [१ सिद्धये चतुर्थ्यन्तम् २ वर्धमा प्रथमान्तम् एकवचनम् । वर्धमान+णिच्+क्विप्-वर्धमान्-वर्धमा । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ ताम्र+क्यङ्-ताम्राय+क्विप्-ताम्रा । अस्य आकारान्तस्य तृतीयैकवचने ताम्रा । यथा 'गोपा'शब्दस्य तृतीयैकवचने गोपा तथा ताम्रा। ६ इ+शतृ-यत्+नख+मण्डल+णि+क्विप्-यन्नखमण्डल । इ+क्य+क्विप्-ईः । यन्नखमण्डल +ई: यन्नखमण्डलीः यन्नखमण्डली । ७ प्रतिशब्दः लिखितप्रतिसूचकः । प्रति+ऊह-शलप्रत्यूहशलू प्रथमान्तम् । ८ अ+भा-अभ-प्लोष-अभप्लोष । अस्य तृतीयैकवचने अभप्लोषा । 'ताम्रा' इत्यस्य विशेषणम् । ९ इन्ध-क्विप् इत्+ई+प्राइदीप्र+दीप् इदीप्रदीपा । इदमपि तृतीयान्तमेकवचनम् । 'ताम्रा' इत्यस्य विशेषणम् । अभप्लोषा+इदीप्रदीपा-अभप्लोषेदीप्रदीपा । प्रत्यहशल+अभप्लोषेदीप्रदीपा-प्रत्यूहशलभप्लोषेदीप्रदीपा । १० अकुर+अस अकुराः । अत्र 'अङ्कराः' इति 'इ' इत्यस्य विशेषणम् । इ+अ+ताय्-यता इति आकारान्तम् तस्य चतुर्थ्या एकवचने यते । ततः अङ्कुराः+यते अङ्कुरायते इति एकं पदम् । ]
व्याख्या-वर्धमानां वर्धमानविद्याम् आख्याति लक्षणया स्मरति णिजि क्विपि तयोर्लोपे सौ "नाम्नो नो०" [२।२।९१ ] इति नलोपे वर्धमा वाचनाचार्यः नः अस्माकं सिद्धये कार्यनिष्पत्तये स्तात्-भवतु-इति क्रियासंटङ्कः । किं. 'इणक् गतौ' [१०७५ ] शतरि यन् गच्छन् दूरीभवन्निति यावत् । नखाः नखैः कृता व्रणाः स्त्रीणां वक्षःस्थलादौ, तेषां मण्डलं करोति णिनि विपि तल्लोपे नखमण्डल कामिजनो यस्मात् स यन्नखमण्डल । पुनः किं. इः कामः स इवाचरतीति क्यङि “दीर्घत्रिच्च०" [ ४।३।१०८] इति दीर्घे क्विपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org