________________
यत् पश्चाद् विशेषणसमासे, अस्तात्ताम्लायन् । पुनः किं० खानि इन्द्रियाणि, तेषां मण्डली श्रेणीम् उपचारात् शब्दरूपादिविषयान् ईरयसि कम्पयसि क्विपि खमण्डली प्रलेषाद् विसर्गाभावः ॥६॥
____ इति वृत्तार्थाष्टकेन पञ्च[म]परमेष्ठिनं व्यावर्ण्य, तस्यैव भेदं पण्डितम् वाचनाचार्यम् वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥६५॥ [ सिद्धये वर्धमानः स्तात् ताम्रायन्नखमण्डली ।
प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुरा यते ॥६५॥] [१ सिद्धयेवर्धमानः प्रथमाया एकवचनम् । सिद्ध+या+ई 'सिद्धये' अस्य पदस्य वर्धमानविद्यावाचकेन 'वर्धमान'पदेन समासे सिद्धयेवर्धमानः । २ 'स्तात्' क्रियापदम् । ३ ताम्र+ अस-ताम्राऽस्-ताम्राः । ताम्राः+अन्न-ताम्रायन्न । ४ अन्न+खाद्-अन्नख+मण्डल-अन्नखमण्डल+क्यन्+क्विप्-अन्नखमण्डलीःअन्नखमण्डली। ५ प्रत्यूह+सह-प्रत्यूहशलू+अभ+प्लोष+ ई-प्रत्यूहशलभप्लोषेः इति एकारान्तम् प्रथमाया एकवचनम् । ६ दीप्र+दीप+अङ्कुर+अस-दीप्रदीपाकुराः 'प्रत्यूहशलभप्लोषे' पदेन अस्य पदस्य समासे प्रत्यूहशलभप्लोषेदीप्रदीपाकुराः । ७ इ+अ+तेव+विच्स्य तेः । एतदपि एकारान्तं प्रथमान्तम् एकवचनम् । ततः अत्र 'यते' इति सिद्धम् ।]
व्याख्या-सिद्धां सम्पन्नाम् [याम्--] प्रभावलक्ष्मीम्-ईयते-गच्छति-क्विपि येः सप्रभावा "ते लुगवा" [३।२।१०८] इति उत्तरपदलोपाद् वर्धमानविद्या यस्य स सिद्धयेवर्धमानो बाचनाचार्यः । इः कामस्तेन हेतुभूतेन, न तेवते न क्रीडति इति विचि यतेः । अत्र "प्वोः प्वय०" [१।४।१२१] इति यलोपः । क्विपि तु वस्योट् स्यात् इति विचि सिद्धम् । यतेः कामेन विषयसुखेन हेतुभूतेन अक्रीडकः स्तात्-भवतु-इति क्रियाशेषः । किम्भूतः ? तानं धातुभेदः उपलक्षणाद् सुवर्णादि, निरीहत्वाद् अस्यति क्षिपति त्यजतीति यावत् क्विपि ताम्राः । पुनः किं० अन्नं धान्यं खादन्ति "क्वचित्" [५।१।१७१] डे अन्नखानि धान्यभक्षकाणि न तु .. १ अत्र ग्रन्थकारः एकारान्तं 'सिद्धये' पदं निष्पादयितुं प्रयतते । येन प्रकारेण तेन तत्पदसाधनाय युक्तिः दर्शिता तेन तु 'सिद्धये' इति साधयितुं न शक्यम् । ग्रन्थकारयुक्तिः एवम्-"सिद्धाम् सम्पन्नां प्रभावलक्ष्मीम् ईयते गच्छति क्विपि येः" । अत्र 'सिद्ध'शब्दः तथा 'ई' धातुः 'क्विप् प्रत्ययश्च उपयोगं नीतः। अनेन तु सिद्ध+ई'सिद्धे' इत्येव स्यात् न तु 'सिद्धये' इति ।
अतः अत्र एवं पाठः युक्तः-सिद्धां सम्पन्नाम्, याम् प्रभावलक्ष्मीम् ईयते गच्छति क्विपि येः अथवा सिद्धयः-तथाहि-सिद्ध+या+ई-सिद्धये अथवा केवलम् या+ई'ये' इति । ततः प्रथमाविभक्तौ सिद्धयेः इति सुसाधम् अथवा 'येः' इत्यपि । “या याने यातरि श्रियाम्"।३६1 इति सुधाकलशीये एकाक्षरकोशे 'या' शब्दः श्रीवाचकः । अतः अत्र 'या' शब्दस्य योजने न किमपि दूषणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org