________________
७०
प्रकर्षेण तां लक्ष्मीम् इच्छति क्यनि क्विपि प्रतीः यः इः कामस्तस्य ऊहिंसनं तस्मिन् उं शिवं हसति अचि प्रत्यूहशः-श-सयोरैक्यात्-एवंविधो यो लेन इन्द्रेण भाति लभो जिनः तं प्रपूर्वाद् अयते: “उपसर्गस्याऽयौ” [२।३।१०० ] इति लत्वे प्लायति अयति विचि “य्वोः प्वय" [ ४।४।१२१ ] इति यलोपे प्रत्यूहशलभप्लाः ॥६३॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥६४॥ ['सिद्धये वैधमानस्तात्ताऽऽम्रायन् न खमण्डली ।
प्रत्यूहशलभप्लोषे दीम दीपाङ्करा यते ॥६४॥] [१ सिद्धः प्रथमान्तम् । २ ए+व+ऋ+ध+म=एवर्धम, ततः द्वितीयाबहुवचनम् । सिद्धः+ एवर्धमान्+सिद्धये वर्धमान् । ३ अस्त+अत्ता अस्तात्त । ४ आ+म्लायत्-आम्रायत् । अस्तात्त +आम्राय अस्तात्ताम्रायत्+न+खमण्डली-अस्तात्ताम्रायन्नखमण्डली। सिद्धयेवर्धमान्+अस्तात्ता. सिद्धये वर्धमानस्तात्ताम्रायन्नखमण्डली। ५ न निषेधवाची । ६ ख+मण्डली+ईर-खमण्डलीः खमण्डली । ७ प्रति+ई ऊह+शलभ+प्लोषे-प्रत्यूहशलभप्लोषे सप्तम्यन्तम् । ८ दीप्र-पञ्चम्याः 'हि' प्रत्यये नामधातुजम् रूपम् 'त्वम्' इतिकर्तृकम् । ९ दीप+अङ्कुर+अस्-दीपाङ्कुरास-दीपाकुराः । १० यते ! संबोधनम् ।
व्याख्या- हे यते ! साधो ! स्वं प्रतिकूला या ई लक्ष्मीः स्वर्ण-रूप्यादिका तस्याम् ऊहः-ग्रहणाभिप्रायः स एव शलभः-पतङ्गः-तस्य प्लोषे दाहे दीप:- अग्निःइव आचर-इत्यर्थः ! साधनिका तु पूर्ववद् ज्ञेया। त्वं किं. दीप्यते इति 'नाम्युपान्त्य०" [ ५।११५४ ] इति के दीपं दीप्यमानं प्रदीपसदृशं वा यत् "अङ्करं सलिले रोम्णि रुधिरे" [ हैम० अने० सं० त्रिस्वरकां० १११८ ] इति अनेकार्थवचनाद् अङ्कुरं रुधिरं निजशरीरोद्भवं तत् तपसाम् [ तपसा ] अस्यसि क्षिपसि क्विपि दीपाङ्कुराः । मुनीनाम् अस्थि-चर्मावशेष एव शरीरशोभावहः । पुनः किं० 'षिधू गत्याम्' [३२०] क्ते सिद्धो गतः श्रित इत्यर्थः । कान् ? एवर्धमान् “भवेत् एर्विष्णुः" [ ] इत्येकाक्षरात् एर्विष्णुः वो महेश्वरः, तथा ऋर्देवमाता तां 'ध पाने' [२८] इति धयति “आतो डः०" [५:११७६] इति डे ऋधो देवः “मो विधौ” [] इति वचनात् मो विधिस्तेषां द्वन्द्वे एवर्धमाः, द्वितीयाशसि एवर्धमान् । कथम् ? न इति निषेधे ब्रह्म -विष्णु-शिवान् देवान् अनाश्रितः—इत्यर्थः तेषां मिथ्योपदेशित्वात् । त्वं कि० अस्ता क्षिप्ता परित्यक्ता इति यावत् । अत्ता माता उपलक्षणत्वात् सांसारिककुटुम्बं येन स अस्तात्तः तथा आः कामः तस्य ‘म्लै'धातोः “इकिश्तिव् स्वरूपार्थे" [५।३।१३८] इति तिवि म्लायतिर्मालिन्यम् तं करोति णिजि क्विपि आम्ला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org