________________
६९
पार्थक्यविवक्षा | ता लक्ष्मीः कि० ऋद्धः समृद्धोऽहं याभ्यः सकाशात् ताः ऋद्धमान् अत्र समासान्तर्गतास्मच्छन्द स्यैकवचनत्वान्मादेशः । शेषं सुगमं सूत्रादिकम् । पुनस्ताः किं० दीप्रदीपाङ्कुरा इव दीप्रदीपाङ्कुराः । कस्मिन् ? प्रत्यूहा विघ्नास्त एव शलभाः पतङ्गास्तेषां प्लोषे दाहे ॥ ६२ ॥
ता+अदृ=
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ ६३ ॥ [[सिद्धेये वर्धमानस्तत् तात्री येन्नखमण्डली । प्रत्यू - हशल-भप्लोऽषे दीर्घदीपां कुरों यते" ॥ ६३ ॥] [१ सिद्धये चतुर्थ्यन्तमेकवचनम् । २ वर्धमानः प्रथमाया एकवचनम् । ३ तात् प्रथमेकवचनम् । ताम्र + अस्= ताम्राः प्रथमैकवचनम् । ५ यत् + न + ख - मण्ड + लीः = यन्नखमण्डली :- प्रथमैकवचनम् - ० मण्डली | ६ प्रती + इ + ऊ +उ- हस = प्रत्यूहस - प्रत्यूहश+प्र+अय्=प्राय्= प्लाय्=प्लाः=प्रत्यूहशलभप्लाः+अष+इदी+रदीपाम् = प्रत्यूहशलभप्लोऽषेदीप्रदीपाम् । ७ अत्र 'अष' इति पञ्चम्या द्वितीयपुरुषैकवचनम् । प्र+अय् =प्राय् =प्लाय्= ततः प्ला इति जायते । प्लाः + अष इत्यस्य 'प्लोष' इति रूपम् असंभवि 'प्ला:' इत्यत्र विसर्गात् पूर्वस्मिन् भागे आकारस्य विद्यमानत्वात् । तथापि ग्रन्थकारेण केनापि प्रकारेण 'प्लोष' इति साधितम् । ८ प्लोऽष+ इदीप्रदीपाम् =० प्लोऽषे दीप्रदीपाम् । ० • प्रदीपाम् षष्ठीवहुचनम् । ९ कुः प्रथमा - स्थानम्. । १० आः ! संबोधनम् । कु: + आ = कुरा इति निष्पाद्यम् । ११ यतेः - पञ्चम्या एकवचनम् - यते । ] व्याख्या - "आ विधातरि मन्मथे” [ ] इत्येकाक्षरवचनात् आ कामस्तस्य सं ० है यः 1 काम ! त्वं यतेः सकाशात् 'अषी असी गत्यादानयोश्च' [९३१] इति धातोः पञ्चम्याम् अष-गच्छ— दूरं फ्लायस्वेत्यर्थः । त्वं किं० 'ञिइन्धेप् दीप्तौ' [१४९८ ] इत्यतो भावे " कुत्सम्पदादिभ्यः " [५/३/११४] क्विपि इत् दीपनम्, तदीप्सति क्विपि " पदस्य " [२।११८९] इति सलोपे विरामविवक्षया “घुटस्तृतीयः " [२।१।७६] इति तृतीयाभावे इदीप् । पुनः किं० “रस्तीक्ष्णे वैश्वानरे कामे” [ ]इत्येकाक्षरवचनाद् रो वह्निस्तद्वद् याः- दीपनं भावे क्विपि - दीपकान्त्यस्तासां रदीपाम् कुः स्थानम् । पुनः किं० तां लक्ष्मी धन-धान्यादिकाम् । 'अट्टि हिंसातिक्रमयो:' [६७४] अट्टते हिनस्ति क्विपि तात् अत्र दकारोपान्त्यात् अड्डेः " पदस्य” [ २ । १ । ८९] इति टलोपे सिद्धम् । अत एव किं० ताम्र धातुभेदः उपलक्षणत्वात् सुवर्णादि अस्यति क्षयं नयति क्विपि ताम्राः । पुनः किं० एतीति शतरि यती गच्छन्ती नो ज्ञानम् खं मुखम् एव मण्डः शोभा तस्य लीः श्लेषो यस्मात् स यन्नखमण्डलीः । पुनः किं० " वर्धमानो वीरजिने स्वस्तिकैरण्ड- विष्णुषु" [ हैम० अने० चतुःस्वरकां० श्लो० १५६१] इति मनेकार्थवचनाद् वर्धमानः एरण्डः स इव । कस्यै सिद्धये कार्यनिष्पत्तये । यथा एरण्डेन कार्यसिद्धिर्न स्यात् तथा त्वया सिद्धिर्न भवतीत्यर्थः । यतेः किं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org