________________
६८
प्रद्यति छिनत्ति क्विपि परमते " ईर्व्यञ्जनेऽयपि” [ ४।३।९७ ] इति ईकारे अदीप्रदीर्जिनः तं ' पनि स्तुतौ' [ ७४८ ] इति पनायति स्तौति क्विपि "अशविते वा" [ ३।४।४ ] इति 'आय' प्रत्ययाभावे " अहन् - पञ्चमस्य० " [ ४|१|१०७ ] इति दीर्घे सौ “नाम्नो नोऽनहः" [ २|१|९१ ] इति नलोपे अदीप्रदीपा अनुस्वराभावश्चित्रत्वान्न दोषाय - ॥६१॥
सिद्धये वर्धमानः स्यात् वाम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ ६२॥
[ सिद्धये वर्धमानस्तात् ! ताम्रा ! यन्न खमण्डली | प्रेत्यूहशलभप्लोषे दीमदीयाँ कुरा येते ||६२|| ]
[ १ सित् ! संबोधनम् । २ हयेव क्रियापदम् सप्तम्या अस्मत्पुरुषस्य द्विवचनम् । ३ ऋद्ध+ अहम् = ऋद्धमान् द्वितीयाबहुवचनम् 'ताः' इत्यस्य विशेषणम् । ४ अस्त+अत्=अस्तात् ! संबोधनम् । खित्+हयेव+ऋद्धमान् + अस्तात् = सिद्धयेवर्धमानस्तात् । ५ ताः द्वितीयाबहुवचनम् । ६ म्लाःम्राः संबोधनम् । ७ यत्+नयन्न ! संबोधनम् । ८ ल=लि | ख+मण्ड + लि-खमण्डली - प्रथमाद्विवचनम् । 'हयेव' इत्यस्य क्रियापदस्य कर्तुर्विशेषणम् । ९ प्रत्यूहशलभप्लोषे सप्तम्या एकवचनम् । १० दीप्रदीपाङ्कुराः 'ताः' इत्यस्य विशेषणम् । ११ यतेः पञ्चम्या एकवचनम् यते । ]
व्याख्या- कश्चित् साधुर्वैराग्यतः स्वमात्मानं प्रति कथयन्नस्ति तद्यथा - अस्तं पश्चिमाद्रिम् 'अत सातत्यगमने' [ २७९] अतति क्विपि अस्तात् सूर्यः स इव तस्य सं० हे अस्तात् ! सूर्यसदृश ! | म्लायति कर्मभिरिति म्लास्तस्य सं० हे म्लाः ! तथा यन् गच्छन् “नः पुनर्बन्ध - बुद्धयोः " [ ] इत्येकाक्षरवचनात् नः कर्मबन्धो यस्मात् यन्नः तस्य सं ० है यन्न ! असाधारणविशेषणैरात्मा लभ्यते । आत्मा खलु केवलः सूर्यवद् दीप्र एव भाति, कर्मावलिप्तः सन् म्लानोऽपि सामग्रीविशेषेऽपगतकर्मा भवति इति विशेषणत्रयम् । तथा सिद्धिं सकलकर्मापगमोद्भूतां मुक्तिं करोति णिजि क्विपि सित् तस्य सं० हे सित् । सिद्धिगामिन् ! आवाम् ' यम् उपरमे' [३८६] स्त्रियां तौ यतिर्व्रतम् तस्याः सकाशात् ताः स्वर्गापवर्गादिलक्ष्मीः हयेव गच्छेव । अत्र 'य हर्य क्लान्तौ च' [ ३९७] इति चानुकृष्टगत्यर्थात् हयतेः सप्तम्यां सिद्धम् । आवां किं० खं स्वर्गस्तस्य मण्डो भूषणं तस्मिन्, “ल इन्द्रे चलनेऽपि " [ ]इत्येकाक्षरवचनात् ल इन्द्रस्तस्यापत्ये ली " अत इञ् " [ ६ । १ । ३१ ] इति इञि द्विवचने ली यथा ली इन्द्रसुतौ स्वर्गं भूषयतः, तथा आवामपीत्यर्थः । अत्र साधोस्तदामन चैक्येऽपि 'तैलस्य धारा' 'सर्प आत्मानम् - आत्मना आत्मानम् - वेष्टयति' इतिवत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org