________________
६७
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | eye लमप्लोपे दीमदीपाकुरायते ॥ ६१ ॥
[ सिद्धये वर्धमानः स्तात् तो म्रायैन्न खमँण्डली ।
प्रत्यूहशलभप्लोषेऽदीमदीपांकुरा यते
॥ ६१ ॥ ]
[ १ सित् + हय +इन्व् - सिद्ध प्रथमायाये एकवचनम् । २ वर्धमानः प्रथमा । ३ क्रिया. पदम् । ४ तु+विच्= तो । ततः द्वितीयाबहुवचनम् ताः -ता । ५ म्लायन् - म्रायन् प्रथमान्तम् । ६ न निषेधवाची । ७ खमण्डली प्रथमान्तम् । ८ प्रत्यूह + शल+भ+प्लोष + अ + द + क्यङ् ( ० अदी+इ= अदी) प्र+दो (प्रदी ) + पन् = प्रत्यूहशलभप्लोषेऽदी प्रदीपा - प्रथमान्तम् । ९ अ+कुः +आ=अकुरा | अत्र कुः प्रथमा ततः 'आ' पदम् निपातरूपम् । १० यतेः ।]
व्याख्या- 'आ' इति स्मरणे । यतेः साधोः । 'पा' शब्दस्थानुस्वारवाच्यं परब्रह्म तत्सदृशः । "तु भूमौ शब्दे च " [ ] इत्येकाक्षरवचनात् कुः शब्दो वचनमिति यावत् । 'तुंक् वृत्ति - हिंसा- पूरणेषु ' [ १०७९ ] इति हिंसार्थ' तु 'धातोः तुवन्ति हिंसन्ति जन्तूनिति विचि गुणे द्वितीयाशंसि " आ अम् - शसोडता " [ ११४/७५] इति आकारे ता हिंसकान् । 'वर्धन ( णू ) छेदन - पूरणयो:' [ १६६१ ] इति छेदनार्थाद् 'वर्ध' धातोः अनित्यत्वात् णिचोऽभावे वर्धति छिनत्ति इत्येवंशीलः "वयः शक्तिशीले” [ ५।२।२४ ] इति 'शान' प्रत्यये वर्धमानः छिन्दानः स्तात् - भवतु इति क्रियासम्बन्धः । ननु साधोः सर्वसावयविरतत्वाद् वचनं कथं हिंसकजन्तून् प्रति छेदकं वर्ण्यते तद्वचनस्य सर्वजन्तुषु हितावहत्वात् ? उच्यते, तेषां हिंसापरिणामच्छेदकत्वेन परिणामिनोऽपि कथंचिच्छेदनादेवंवर्णनम् । हिंसापरिणामच्छेदने च दुर्गतिपातत्राणात् साधुवचनं तेषां हितमेव । किं० साधुशब्दः ? 'बिंग बन्धने' [ १२८७ ] क्विपि सित् सम्बद्धीभवन् यः 'हिंदू गति वृद्धयोः ' [ १२९५ ] इत्यतो "युवर्ण-वृ-वश-रण ०" [ ५।३।२० ] इत्यलि हयः - ज्ञानम् गत्यर्थानां ज्ञानार्थत्वात् - तं 'इव व्याप्तौ च' [ ४८८ ] इत्यतो इन्वति व्यामोति विचि “य्वोः प्वय्०" [ ४|४|१२१ ] इति वलोपे सौ “नाम्नो नोऽनहः " [ २।१।९१] इति नलोपे सिद्धये ज्ञानव्यापक इत्यर्थः । अत एव किं० न म्लायन् वाग् दूषणैरम्लान इत्यर्थः । अत एव किं ? खमण्डलं सूर्यबिम्बं तद्वद् अवश्यमाचरति क्विपि धातुत्वे " णिन् चाssवश्यकाधमर्ण्य” [५।४।३६] इति णिनि खमण्डली । कस्मिन् ? प्रत्यूहा विघ्नाः त एव 'शल चलने' [ ९८४ ] ] शलन्ति व्याप्नुवन्ति " वा ज्वलादि ० " [ ५।१।६२ ] इत्यस्य विकल्पे अचि शलानि जगद्व्यापकानि यानि भानि नक्षत्राणि तेषां प्लोषे. दाहे । पुनः किं० अः कृष्णस्तस्य दं कलत्रं लक्ष्मीः तां स्वमातृत्वात् इच्छतीति क्यङि क्विपि अदीयः इः कामस्तं १ 'प्रदीपांकुर' इत्यत्र 'प्रदीपा' पदसंबन्धि 'पा' शब्दस्थम् 'अं' इति ।
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org