________________
६६
सिद्धये वर्धमानः स्तात् . ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाकायते ॥६॥ [ सिद्धयेवैध ! मानस्तात् तो ब्रायन्न ! खमण्डली। प्रत्यूँहशल ! अभप्लोषेदी ! मैंदीपाङ्कुरा यते" ॥६०॥]
[१ सित् ! संबोधनम् ! २ 'हयेव' सप्तम्या अस्मत्पुरुषस्य द्विवचनम् । ३ ऋद्ध ! संबोधनम् । ४ मा+न+अस्+ता-बहुव्रीहौ ह्रस्वत्वे-०तमानस्तात्-पञ्चम्या एकवचनम् । ५ ताः द्वितीयाबहुवचनम् । ६ म्लाय+न+म्लायन्न-म्रायन्न ! संबोधनम् । ७ खमण्डली:द्वितीयाबहुवचनम्-खमण्डली-'हयेव' इत्यस्य कर्म । ८ प्रति+ऊ+ह+शल्क्-प्रत्यूहशल ! संबोधनम् । ९ अ+भा-अभ+प्लोष+इ+दी:-अभप्लोषेदी | संबोधनम् । १० प्रदीपाकुरा द्वितीयाबहुवचनम् 'खमण्डली' इत्यस्य विशेषणम् । ११ यतेः षष्ट्या एकवचनम् ]
व्याख्या-कश्चित् साधुःः कंचित् साधु प्रति कथयन्नस्ति । 'षिधू गत्याम्' [ ३२० ] सेधसि जानासि तत्वातत्त्वमिति सित् तस्य सं० हे सित् ! । म्लायति शतरि म्लायन् “नः पुनर्बन्ध-बुद्धयोः" [ ] इत्येकाक्षरवचनात् नो बन्धो यस्मात् स म्लायन्नस्तस्य सं० हे म्लायन्न ! । तथा प्रतिपूर्वाद् 'अव रक्षण' [४८९] इति दहनार्थाद् अवः कर्तरि क्विपि ऊटि प्रत्यूर्दाहको "हो हस्ते शूलिनि" [ ] इत्येकाक्षरवचनात् हो रुद्रो यस्य स प्रत्यूहः कामस्तं शल्कयति खण्डयति क्विपि सौ “पदस्य" [२।१४८९] इति कलोपे हे प्रत्यूहशल्लू ! हे ऋद्ध ! संयमश्रियेति शेषः । तथा अः कृष्णस्तस्मिन् भाति "क्वचित्" [५।१।१७१] डे अभः कृष्णविषयः-'लुषश् स्नेहन०' [१५६२] इति धातोघेञि-प्लोषः स्नेहो यस्य निजपितृत्वात् स अभप्लोषः स स चासौ इश्च कामश्च अभप्लोषेः तम्-'दीच् क्षये' [ १२४४ ] इति दीयसे क्षयं नयसि विपि हे अभप्लोषेदीः ! हे साधो ! आवां यतेः स्वगुरोः सकाशात् खमण्डलीमा॑नमण्डलीः हयेव जानीयावेत्यर्थः । अत्र 'हय हर्य क्लान्तौ च' [ ३९७] इति चानुकृष्टगत्यर्थात् तस्य ज्ञानार्थत्वात् हयधातोः सप्तम्यस्मदर्थद्विवचने रूपसिद्धिः । किम्भूता खमण्डलीः ? ताः प्रसिद्धाः । पुनः किं० आन्तरतमःक्षयकारित्वात् प्रदीपाङ्कुरा इव प्रदीपाकुराः प्रदीपसदृशा इत्यर्थः । यतेः किं० न 'असी गत्यादानयोश्च' [ ९३२ ] इति असति आदत्ते क्विपि अनेः भावे तलि अनस्ता-अग्रहणम्, मानां धन-धान्यलक्ष्मीणां अनस्ता अग्रहणं यस्य स तस्मात् मानस्तात् ॥६॥
१ असति इति अः, न अः अनः इत्येवं बोध्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org