________________
६५
[४|१|१०७] इति दीर्घे वर्धमानस्तानः- शिष्याः - तैरात्तः - अङ्गीकृतः परिवृतः सन् न ग्लायसि न म्लानीभवसि शतरि वर्धमानस्तात्ताम्लायन्-र-लयोरैक्यात् - सिद्धम् । पुनः किं० न विद्यते खानि इन्द्रियाणि प्रयोज्यतया यस्य स अखः । तथा मण्डल्यः सप्तसङ्ख्याका यतीनां प्रसिद्धास्ता ईयते गच्छति क्विपि मण्डलीः पश्चाद् विशेषणसमासे अखमण्डलीः ॥५८॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ ५९ ॥
[सिद्धये वर्धमाः ! नस्ताताऽऽम्रा ! येन्न खमण्डली । ॥ ५९ ॥ ]
प्रत्यूहशल ! अंभप्लोषे दीर्घदीपां कुरो ! यते
[ १ सिद्धयेव इति 'सिद्धि' शब्दस्य नामधातुत्वे क्रियापदम् - परस्मैपदे - सप्तम्या अस्मत्पुरुषस्य द्विवचनम् । २ ऋद्धमाः । संबोधनम् । ३ नः षष्ठी । सिद्धयेव+ऋद्धमाः + नः सिद्धये वर्धमानः । ४ ता+आत्त+आम्र+अस्= तात्ताम्राः ! संबोधनम् । ५ ई + अन्न - खमण्डली = यन्नखमण्डली | बहुव्रीहिसमासे " मण्डलि' इति । तस्य द्विवचनम् मण्डली । ६ प्रति + ऊह + शल्= प्रत्यूहशल संबोधनम् । ७ अ+भ+प्लोषे - अभप्लोषे सप्तम्या एकवचनम् । ८ दीप्रदीपाम् षष्ठीबहुवचनम् ९ कुल +अस् =कुलास्–कुलाः ! संबोधनम् । ततः 'कुरा' इति बोध्यम् । दीप्रदीपाम्+कुरा=दीप्रदीपांकुरा इति । १० यते ! संबोधनम् । ]
व्याख्या-कश्चित् साधुः कंचित् साधुं प्रति वैराग्यं भावयन्नाह - हे यते ! साधो ! | हे ऋद्धमाः ऋद्धा ज्ञानादिलक्ष्मीसमृद्धास्तेषु माः चन्द्र इव ऋद्धमास्तस्य सं० | तया लक्ष्म्या आत्ता अङ्गीकृताः तात्ताः इभ्यास्तेषु विषये आम्रवत् सहकारवत् अससि शोभसे क्विपि तात्ताम्राः - तेषाम् आम्रवत् सन्तापहर इत्यर्थः - तस्य सं० है तात्ताम्राः ! । तथा ऊहं वितर्कम् । 'शट रुजा- विशरण - गत्यवसादनेषु' [ १७५ ] इत्यतो " गत्यर्था ज्ञानार्था: " [ हैमहंस ० न्यायसं० पृ० ९३ न्याय ४४] इति शटति जानाति क्विपि ऊहराइ-ड लयोरैक्याल्लत्वे - ऊहशल तस्य सं ० हे ऊहशल ! विचारज्ञ ! तथा र-लयोरैक्यात् कुलेन वंशेन अससि शोभसे कुलास्तस्य सं० हे कुलाः ! कुलीन ! आवां न आत्मनामेव सिद्धयेव सम्यक्क्रियानुष्ठानेन सिद्धिं मोक्षं कुर्याव इति क्रियासम्बन्धः । अत्र सिद्धिशब्दात् निजि सप्तम्या अस्मदर्थद्विवचने 'सिद्धयेव' इति सिद्धम् । 'नः' इत्यत्र बहुवचनं पूज्यत्वान्निर्दूषणम् । नः किं० अः कृष्णस्तस्माद् भवति " क्वचित् " [५।१।१७१] डे अभः कामस्तस्य लोषे दाहे दीप्रवद् वह्निवद् दीप्यामहे - " क्विप्” [ ५|१|१४८ ] इति क्विपि अभप्लोवे - दीप्रदीपस्तेषाम् । यथा वह्निः सर्वं दहति तथा वयमपि काममिति । तथा आवां कथम्भूतौ ? यन्नखमण्डली ई पृथिवी, तत्स्थलोका अपि ई, तस्या अन्नमित्र अन्नं जीवनम् खमण्डली ज्ञानश्रेणिर्ययोस्तौ अन्नखमण्डली अत्र अनित्यत्वात् कजभाषे “गोश्चान्ते हूस्वः ०” [२।४।९६] इति हूस्वत्वे प्रथमाद्विवचने मण्डली इति रूपसिद्धिः ॥५९॥
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org