________________
६४
शास्त्रं तद् यान्ति श्रयन्ति “आतो डः०"[५।११७६] इति डे सिद्धयो विद्वान्-जात्येकवचनं-तस्मिन् सिद्धये । किम्भूते ? उत्तमत्वान्नखैः कृत्वा. मण्डलं चन्द्रस्य सूर्यस्य वा बिम्बम् तद्वदाचरति क्यङि दीर्घ क्विपि यलोपे सप्तम्यां "लुगातोऽनापः" [२।१।१०७] इत्यालोपे नखमण्डलि । त्वं किं० 'ईच् गतौ' [१२५२] “गत्यर्था ज्ञानार्थाः" [हेमहंस० न्यायसं० पृ०९३ न्याय ४४]इति ईयसे जानासि तत्त्वातत्त्वमिति ईः क्विपि तत्त्वज्ञः॥५॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥५८॥ ['सिद्धये वैधमानस्ताऽऽत्ताऽम्रायन्नखमण्डली।
पैंत्यहश ! लमें प्लोषेदी प्रदीपाडुरा यते ! ॥५८॥] [१ सिद्धये चतुर्थ्यन्तम् । २ वर्धमान+स्तन्+आत्त+अम्लायन्-वर्धमानस्तात्ताऽम्रायन् ।३ अ +ख+मण्डली+ई-अखमण्डलीः । °त्ताम्रायन्+अखमण्डलीः त्ताऽम्रायन्नखमण्डली । ४ प्रति++ ऊह+शो-प्रत्यूहशः अस्य संबोधने प्रत्यूहश ! ५ लभ द्वितीयपुरुषैकवचने क्रियापदम् पञ्चम्याम् ६ प्लोष 'लभ'वत् क्रियापदम् । ७ इ+इन्ध्-ईत्+ई-ईदि । अस्य इकारान्तस्य द्विवचनम्-ईदी। ८ प्रदीप+अकुर+अस-प्रदीपाकुराः प्रथमैकवचनम् । ९ यत+ई-यते-एकारान्तं पदम्-संबोधन कवचनम् ।]
व्याख्या--'यमू उपरमे' [३८६] "क्लीबे क्तः" [५।३।१२३] इति क्ते यतं व्रतम् । ईयते गच्छति क्विपि यतेः तस्य सं० हे यते ! साधो ! “अदेतः स्यमोहूं" [१।४।४४] इति सिद्धम् । 'अव रक्षण' [४८९] इति हिंसार्थात् 'भ्यादिभ्यो वा" [५।३।११५] इति क्विपि ऊटि ऊहिंसा तां प्रति लक्षीकृत्य, प्रत्यू:-हिंसाविषयः-यः ऊहः तर्कस्तं श्यति तनूकरोति “आतो डोऽह्वा-वा०" [५।१।७६] इति डे प्रत्यूहशस्तस्य सं० हे. प्रत्यूहश ! त्वं सिद्धये मोक्षाय आत्मनेपदस्यानित्यत्वात् पञ्चम्या हो लभ प्राप्नुहि । अत्र सिद्धेः कर्मत्वेऽपि सम्प्रदानविवक्षया चतुर्थी तथा चकाराध्याहारात् च पुनः किं.. इः कामस्तेन इन्धे दीप्यते क्विपि ईत् कामिजनस्तथा इः कामस्तयोरितरेतरद्वन्द्वे. ईदी कामि-कामौ प्लोष दहेत्यर्थः । साधुर्हि सेवकानां ब्रह्मचर्योच्चारणेन कामिजनाभावं करोति, तेषामभावे कामस्याप्यभाव इति । त्वं किं० प्रदीपाङ्कुर इवाचरति क्यङि क्विपि तल्लोपे अल्लोपे सौ प्रदीपाकुराः प्रदीपसदृश इत्यर्थः । प्रथमे पादे म-स-ज-भ-ग-गाः, द्वितीये स.न-ज-र-गाः, तृतीये न-न-स-न-साः, चतुर्थे न-न-न ज-याः , वर्धमानं. छन्द इति वर्धमानं . छन्दोविशेषः उपचारात् छन्दोऽनुशासनग्रन्थः अन्यान्यपि शास्त्राणि । 'स्तन शब्दे' [३२३] स्तनन्ति पठन्ति क्विपि "अहन्-पञ्चम"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org