________________
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाइकुरायते ॥५७॥ [सिद्धये वर्धमा ! नः स्तात् ताम्राऽयमखमण्डली ।
प्रत्युहशलभप लोऽषेदीपदी पाङ्कुरा यते"! ॥५७॥] [१ सिद्ध + या = सिद्धया । अस्य सप्तम्येकवचने सिद्धये । २ वर्धमान -वर्धमान्वर्धमा - प्रथमैकवचनम् । ३ नः षष्ठीबहुवचनम् । ४ स्तात् क्रियापदम् । ५ ता + म्रद - ताम्र ! संबोधनैकवचनम् । ६ अयम् । ताम्र + अयम् - ताम्रायम् + नख० ताम्रायन्नख०। ७ ख + मण्डल + क्यङ् + क्विप् - खमण्डला । अस्य सप्तम्याम् खमण्डलि । • मण्डलि + ई - • मण्डलीः = मण्डली । ८ प्रति + ऊ + ऊह - शर + ब + भू- प्रत्यूहशलभप् + ल:=प्रत्यूहशलभप्लः । पदद्वयमपि प्रथमान्तम् । ९ अ+ष+इ-अषे समासान्तर्गत पदम् । १० दीप्रदीप + अङ्कुर + अस् = दीप्रदीपाकुराः प्रथमा । ११ यते ! संबोधनम् । ]
व्याख्या-हे यते ! तां संसारहेतुभूतां लक्ष्मी 'म्रदिष् मर्दने' [१००४] इति म्रदते लक्षणया त्यजति "क्वचित्" [५।१।१७१]डे ताम्रः तस्य सं० हे ताम्र ! त्वं नः अस्माकं वर्धमानं जिनम् आख्याति णिजि क्विपि तयोर्लोपे "नाम्नो नो०"[२॥१॥ ९१] इति नो लोपे वधमा-श्रीवीरस्य वक्ता-स्तात् । त्वं कि० अयं प्रत्यक्षलक्ष्यः । पुनः किं० प्रतिकूला या-हिंसार्थादवेर्भावे क्विपि-ऊहिंसा तस्या यः अहो विमर्शः स एव र-लयोरक्यात् शरं जलं तस्मिन् । “वः प्रचेतसि कलशे" [ ] इत्येकाक्षरवचनाद् वः कलशस्तस्माद् भवति क्विपि बभूः अगस्तिस्तम् आख्याति णिजि विपि तल्लोपे सौ "दीर्घयाब्०" [१।४।४५] इति तस्या अपि लोपे चतुर्थान्तत्वाद् "ग-ड-द-बादेः०" [२।११७७] इति बस्य भत्वेऽतनस्य भस्य "धुटस्तृतीयः" [२।११७६] इति बत्वे विरामविवक्षया पत्वे प्रत्यूहशलभप् अत्र अग्रेतनलेन सहकीभावाद् विरामाभावेऽपि
“संहितैकपदेनित्या, नित्या धातूपसर्गयोः ।
नित्या समासे, वाक्ये तुसा विवक्षामुपेक्ष्य (मपेक्ष)ते ॥" इति वचनाद् वाक्ये विवक्षया विरामो भवतीत्युपन्यस्तम् । पुनः किं० "षः श्रेष्ठे" इत्येकाक्षरान्ना योगे अषः अश्रेष्ठो य इ. कामः स एव “अग्नौ दीप्रः" हमकोषनाममाला श्लो० १७११] इति शेषवचनाद् दीप्रः अग्निस्तस्य दीप्यते इति.त्रि दीपो दीपनं तस्मिन् । “अङ्कुरं सलिले रोम्णि. रुधिरेऽभिनवोद्गगमे" । हैम० अनेका०सं० त्रिस्वरकां० श्लो०१११८] इत्यनेकार्थवचनात् अङ्गुरं जलं तहदससि शोभसे क्विपि अषेदीप्रदीपाङ्कराः। पुनः किं० "ल इन्द्रे चलनेऽपि च" [ ]इति वचनात् ल इव लः इन्द्रसदृश इत्यर्थः । कस्मिन् ? 'षिधू शास्त्र-माङ्गल्ययोः'[ ३२१] इत्यतोनपुंसके क्ते सिद्धं
, "अग्नौ वमिर्दीप्रः समंतभुक"-हैमशेषनाममाला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org