Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
________________
७८
मण्डली राजा इव स्वर्गस्य स्वामी च स्वर्गस्य धर्माधीनत्वात् । पश्चात् ताम्रायन्नश्चासौ खमण्डली च ताम्रायन्नखमण्डली । पुनः किं० दिनं करोति णिजि क्विपि तल्लोपे सौ ' दीर्घया ब्०" [ १ । ४ । ४५ ] इति सेर्लोपे " नि दीर्घः " [ १ । ४ । ७५ ] इति दीर्घे दी इव-सूर्य इव - सूर्यसदृश इत्यर्थः । कस्मिन् ? ऊहिंसायां कर्त्तव्यभूतायां ह हस्तं शलयति चालयति अचि ऊहशलो हिंसापरायणः स एव भं नक्षत्रम् तस्य छोषे विनाशे इत्यर्थः । पुनः किं० प्रददातीति क्विपि परमते " ईर्व्यञ्जनेऽयपि”[४ । ३ । ९७] इति ईकारे प्रदीर्दाता । कथम् ? प्रति लक्षीकृत्य, के' ? पाति रक्षति तापादिभ्यः इति क्विपि पम् तापव्यपोहकं यत् “ धाराऽङ्कुरं वीसारे शीकरे जलदोपले" [ हैम • अनेका ० सं ० चतुःस्वरकां॰ श्लो० १६३२ ] इति अनेकार्थवचनात् " ते लुग्वा "" [ ३ । २ । १०८] इति पूर्वपदलोपात्- अङ्कुरं वातमिश्रं जलं तत्सदृशं यत् अयः शुभं कर्म, ता च लक्ष्मीः तयोरितरेतरद्वन्द्वे पाङ्कुरायते ॥ ७१ ॥
इत्यर्थद्वयेन श्रीजिनधर्मं वर्णयित्वा सिद्धान्तं वर्णयति - तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्करायते ॥ ७२ ॥
[ 'सिद्धये वर्धमानस्ताऽऽताऽऽम्रा यं न - खमं डली' । मँत्यूहशलभप्लोषे दी प्रदीप कुरीयते" ॥ ७२ ॥ ]
१ [ सिद्धः+ए=सिद्धये । सिद्धः प्रथमान्तम् । 'ए' वर्णः पादपूरणाय । २ स्तन - स्ता । वर्धमान+स्ता = वर्धमानस्ता - प्रथमान्तम् । ३ आत्त+आम्र+अस्=आत्ताम्राः - प्रथमान्तम् । वर्धमानस्ता + आत्ताssम्नाः- वर्धमानस्तात्ताम्राः । ४ यम्+ नव्यन्न० । यम् इति द्वितीयान्तम् । ५ न+ख+मम् नखमम् 'यम्' इत्यस्य विशेषणम् - द्वितीयान्तम् । ६ ड+ली=डली प्रथमान्तम् । ७ प्रति+ऊ+ ह+शर+भू=प्रत्यूहशरभ - प्रत्यूहशलभ+प्लोषे=प्तत्यूहशलभप्लोषे सप्तम्यन्तम् ८ दिन + णिच्+क्विपूदिन् = दी - प्रथमान्तम् १९ प्रदीप्+आम् = प्रदीपाम् षष्ठीबहुवचनम् । १० कुः प्रथमान्तम् । ११ अयिधातोः आत्मनेपदिनः ह्यस्तन्याम् तृतीयपुरुषैकवचने 'त' प्रत्यये आयत । आयत+ईः=आयतेः आयते । कुः+आयते = कुरायते । प्रदीपाम्+कुरायते = प्रदीपाङ्कुरायते । ]
LE
""
व्याख्या -'ए' इति पादपूरणे । तेलुगू वा [ ३ । २ । १०८ ] इत्युत्तरपदलोपात् सिद्धः सिद्धान्तः आत्तो गृहीतः - अर्थात् पठितुकामैः स्वीकृतः सन् अतिमधुरतया आम्रवच्चूतफलवत् शोभते क्विपि आत्ताम्राः भवतु इत्यर्थघटना - अयमर्थःपाठिनां सहकारफलवन्मधुररसपोषको भवतात - इत्यर्थः । किं० ' स्तन शब्दे [ ३२३ ] अहन्पश्चम० [ ४ । १ । १०७] इति दीर्घे नाम्नः ० ' [२ ।
66
""
(6
कर्म । २ अनेकार्थसंग्रहे
१ 'के' इति द्विवचनं प्रतिभाति तच्च 'लक्षीकृत्य' इत्यस्य एवं पाठ: - " धाराङ्कुरः शीकरे स्यान्नासीरे जलदोपले ' इति ।
>>
Jain Education International
>
For Private & Personal Use Only
-:
"
www.jainelibrary.org
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148