Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 105
________________ ওই व्याख्या-कुः शब्दो वाचकोऽस्ति । कीदृशः ? अकारेण युक्तो यः स्वग्युक्तो यो भकारः एतावता भा इति वर्णः, तं प्लवते गच्छति श्रयतीति यावत् विचि सौ "ओत औः" [१ । ४ । ९४ ] इति सूत्रेण औकारे अभप्लौः । ईदृशं षकारम् एति क्विपि अभप्लोषेत् एतावता 'भाषा' इति शब्दो वाणीत्यर्थोऽस्तीति । कस्य ? यतेः साधोः संयतस्य । किंवाचकः ? सिद्धा शाश्वती, या लक्ष्मीः, तस्या इनः स्वामी सिद्धयेनो जिनः तम् आख्याति, श्रोतृणाम् तदुपज्ञं सिद्धान्तं वेति णिजि विपि तल्लोपे सौ " दीर्घड्याब्०" [१।४।४५] इति सेलोपे "नाम्नो नो."। २। १ ९१] इति नलोपे सिद्धये । पुनः किं० "क्षिति-जल-पवन-हुताशन-यजमाना-ऽऽकाश-सोम-सूर्याख्याः " [ ]इत्युक्तेः आपः पानीयमूर्तिः । तथा “ अर्धं दानववैरिणा, गिरिजयाऽप्यध हरस्याऽऽहृतम् ।" [ ] इत्युक्तेः अर्धस्य पार्वत्या गृहीतत्वाद् अधोऽर्धरूपो यो मः शिवः तम् । 'अम शब्द-भक्त्योः ' [३९१ ] इति भजनार्थाद् अमेः अमति भजते क्विपि “मो नो म्वोश्च [२।१ । ६७ ] इति मो नत्वे अबर्धमान् मैथ्यात्विकजनः तस्य 'असी'धातोः क्विपि भावे तलि अस्ता दीप्तिः तस्याः ' अट्टि हिंसा-ऽतिक्रमयोः' [६७४] क्विपि भावे तलि-अत्ता विनाशः तस्यां कर्तव्यायां न म्लायति क्विपि अबधमानस्तात्ताम्लाः । पुनः किं ० 'लड जिह्वोन्मथने' [१०६३ ] णिगि लडयति उन्मन्थयति अवश्यमिति “णिन् चावश्यकाधमर्थे " [५ । ४ । ३६ ] इति णिनि ड-लयोर्व्यत्यये डली उन्मन्थकः। कथं ? प्रति लक्षीकृत्य । कम् ? अं कृष्णम् । तथा पुनः किम्भूतः ? नः ब्रह्मा, खः सूर्यः, मश्चन्द्रः तेषां समाहारद्वन्द्वे न-ख-मं बुद्ध-रवीन्दुप्रमुखमिथ्याग्देवताना प्रभावापहारक इत्यर्थः । पुनः किं० ऊहं विचारम् 'सल गतौ' [ ४३८ ] [ सलति ] गच्छति क्विपि ऊहशलू श-सयोरैक्यात् । पुनः किं० 'आसिक् उपवेशने' [१११९] णिगि आसयति स्थिरीकरोति क्विपि आः स्थिरीकारकः । कासा ? ई लक्ष्मीः प्रदीपः कान्त्यस्तासाम् ॥ ६९ ॥ इति यतिवाणीम् एकार्थेन व्यावर्ण्य श्रीजिनधर्म वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥७०॥ [सिद्धयेऽवर्धमा नः स्तात् ताम्राऽऽयन् न खमण्डली । "प्रत्यूहशलभ-प्लोषेदीप्रदीपाङ्करा यते ॥७०॥] । १ सिद्धये चतुर्थ्यन्तम् । २ अव++ध+म+असु-अवर्धमाः प्रथमैकवचनम् एतत् पदम् 'धर्म' शब्दं सूचयति । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ ताम्र+आ+य+क्विपू+शतृ ताम्रायन नामधातोः प्रथमान्तम् । ६ न+खमण्डल+इन् नखमण्डली । ७ प्र+ति-प्रति । प्रति+ऊह+शलकू +णिच्xकिप-प्रत्यूहशल । ८ अ+भ+प्लोष-अभप्लोष+इत्-अभप्लोषेत् । ९ ई+प्रदीप+अङ्कर+असईप्रदीपाकुराः। प्रत्यूहशल+अभप्लोषेत्+ईप्रदीपाकुराः=प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुराः । १० यते:- यते।] १ अधुनैव ग्रन्थकारः "नः ब्रह्मा" इति सूचितवान् तथापि अत्र 'न' शब्देन 'बुद्धः अभिप्रेतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148