Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 100
________________ यत् पश्चाद् विशेषणसमासे, अस्तात्ताम्लायन् । पुनः किं० खानि इन्द्रियाणि, तेषां मण्डली श्रेणीम् उपचारात् शब्दरूपादिविषयान् ईरयसि कम्पयसि क्विपि खमण्डली प्रलेषाद् विसर्गाभावः ॥६॥ ____ इति वृत्तार्थाष्टकेन पञ्च[म]परमेष्ठिनं व्यावर्ण्य, तस्यैव भेदं पण्डितम् वाचनाचार्यम् वर्णयति-तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥६५॥ [ सिद्धये वर्धमानः स्तात् ताम्रायन्नखमण्डली । प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुरा यते ॥६५॥] [१ सिद्धयेवर्धमानः प्रथमाया एकवचनम् । सिद्ध+या+ई 'सिद्धये' अस्य पदस्य वर्धमानविद्यावाचकेन 'वर्धमान'पदेन समासे सिद्धयेवर्धमानः । २ 'स्तात्' क्रियापदम् । ३ ताम्र+ अस-ताम्राऽस्-ताम्राः । ताम्राः+अन्न-ताम्रायन्न । ४ अन्न+खाद्-अन्नख+मण्डल-अन्नखमण्डल+क्यन्+क्विप्-अन्नखमण्डलीःअन्नखमण्डली। ५ प्रत्यूह+सह-प्रत्यूहशलू+अभ+प्लोष+ ई-प्रत्यूहशलभप्लोषेः इति एकारान्तम् प्रथमाया एकवचनम् । ६ दीप्र+दीप+अङ्कुर+अस-दीप्रदीपाकुराः 'प्रत्यूहशलभप्लोषे' पदेन अस्य पदस्य समासे प्रत्यूहशलभप्लोषेदीप्रदीपाकुराः । ७ इ+अ+तेव+विच्स्य तेः । एतदपि एकारान्तं प्रथमान्तम् एकवचनम् । ततः अत्र 'यते' इति सिद्धम् ।] व्याख्या-सिद्धां सम्पन्नाम् [याम्--] प्रभावलक्ष्मीम्-ईयते-गच्छति-क्विपि येः सप्रभावा "ते लुगवा" [३।२।१०८] इति उत्तरपदलोपाद् वर्धमानविद्या यस्य स सिद्धयेवर्धमानो बाचनाचार्यः । इः कामस्तेन हेतुभूतेन, न तेवते न क्रीडति इति विचि यतेः । अत्र "प्वोः प्वय०" [१।४।१२१] इति यलोपः । क्विपि तु वस्योट् स्यात् इति विचि सिद्धम् । यतेः कामेन विषयसुखेन हेतुभूतेन अक्रीडकः स्तात्-भवतु-इति क्रियाशेषः । किम्भूतः ? तानं धातुभेदः उपलक्षणाद् सुवर्णादि, निरीहत्वाद् अस्यति क्षिपति त्यजतीति यावत् क्विपि ताम्राः । पुनः किं० अन्नं धान्यं खादन्ति "क्वचित्" [५।१।१७१] डे अन्नखानि धान्यभक्षकाणि न तु .. १ अत्र ग्रन्थकारः एकारान्तं 'सिद्धये' पदं निष्पादयितुं प्रयतते । येन प्रकारेण तेन तत्पदसाधनाय युक्तिः दर्शिता तेन तु 'सिद्धये' इति साधयितुं न शक्यम् । ग्रन्थकारयुक्तिः एवम्-"सिद्धाम् सम्पन्नां प्रभावलक्ष्मीम् ईयते गच्छति क्विपि येः" । अत्र 'सिद्ध'शब्दः तथा 'ई' धातुः 'क्विप् प्रत्ययश्च उपयोगं नीतः। अनेन तु सिद्ध+ई'सिद्धे' इत्येव स्यात् न तु 'सिद्धये' इति । अतः अत्र एवं पाठः युक्तः-सिद्धां सम्पन्नाम्, याम् प्रभावलक्ष्मीम् ईयते गच्छति क्विपि येः अथवा सिद्धयः-तथाहि-सिद्ध+या+ई-सिद्धये अथवा केवलम् या+ई'ये' इति । ततः प्रथमाविभक्तौ सिद्धयेः इति सुसाधम् अथवा 'येः' इत्यपि । “या याने यातरि श्रियाम्"।३६1 इति सुधाकलशीये एकाक्षरकोशे 'या' शब्दः श्रीवाचकः । अतः अत्र 'या' शब्दस्य योजने न किमपि दूषणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148