Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 99
________________ ७० प्रकर्षेण तां लक्ष्मीम् इच्छति क्यनि क्विपि प्रतीः यः इः कामस्तस्य ऊहिंसनं तस्मिन् उं शिवं हसति अचि प्रत्यूहशः-श-सयोरैक्यात्-एवंविधो यो लेन इन्द्रेण भाति लभो जिनः तं प्रपूर्वाद् अयते: “उपसर्गस्याऽयौ” [२।३।१०० ] इति लत्वे प्लायति अयति विचि “य्वोः प्वय" [ ४।४।१२१ ] इति यलोपे प्रत्यूहशलभप्लाः ॥६३॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥६४॥ ['सिद्धये वैधमानस्तात्ताऽऽम्रायन् न खमण्डली । प्रत्यूहशलभप्लोषे दीम दीपाङ्करा यते ॥६४॥] [१ सिद्धः प्रथमान्तम् । २ ए+व+ऋ+ध+म=एवर्धम, ततः द्वितीयाबहुवचनम् । सिद्धः+ एवर्धमान्+सिद्धये वर्धमान् । ३ अस्त+अत्ता अस्तात्त । ४ आ+म्लायत्-आम्रायत् । अस्तात्त +आम्राय अस्तात्ताम्रायत्+न+खमण्डली-अस्तात्ताम्रायन्नखमण्डली। सिद्धयेवर्धमान्+अस्तात्ता. सिद्धये वर्धमानस्तात्ताम्रायन्नखमण्डली। ५ न निषेधवाची । ६ ख+मण्डली+ईर-खमण्डलीः खमण्डली । ७ प्रति+ई ऊह+शलभ+प्लोषे-प्रत्यूहशलभप्लोषे सप्तम्यन्तम् । ८ दीप्र-पञ्चम्याः 'हि' प्रत्यये नामधातुजम् रूपम् 'त्वम्' इतिकर्तृकम् । ९ दीप+अङ्कुर+अस्-दीपाङ्कुरास-दीपाकुराः । १० यते ! संबोधनम् । व्याख्या- हे यते ! साधो ! स्वं प्रतिकूला या ई लक्ष्मीः स्वर्ण-रूप्यादिका तस्याम् ऊहः-ग्रहणाभिप्रायः स एव शलभः-पतङ्गः-तस्य प्लोषे दाहे दीप:- अग्निःइव आचर-इत्यर्थः ! साधनिका तु पूर्ववद् ज्ञेया। त्वं किं. दीप्यते इति 'नाम्युपान्त्य०" [ ५।११५४ ] इति के दीपं दीप्यमानं प्रदीपसदृशं वा यत् "अङ्करं सलिले रोम्णि रुधिरे" [ हैम० अने० सं० त्रिस्वरकां० १११८ ] इति अनेकार्थवचनाद् अङ्कुरं रुधिरं निजशरीरोद्भवं तत् तपसाम् [ तपसा ] अस्यसि क्षिपसि क्विपि दीपाङ्कुराः । मुनीनाम् अस्थि-चर्मावशेष एव शरीरशोभावहः । पुनः किं० 'षिधू गत्याम्' [३२०] क्ते सिद्धो गतः श्रित इत्यर्थः । कान् ? एवर्धमान् “भवेत् एर्विष्णुः" [ ] इत्येकाक्षरात् एर्विष्णुः वो महेश्वरः, तथा ऋर्देवमाता तां 'ध पाने' [२८] इति धयति “आतो डः०" [५:११७६] इति डे ऋधो देवः “मो विधौ” [] इति वचनात् मो विधिस्तेषां द्वन्द्वे एवर्धमाः, द्वितीयाशसि एवर्धमान् । कथम् ? न इति निषेधे ब्रह्म -विष्णु-शिवान् देवान् अनाश्रितः—इत्यर्थः तेषां मिथ्योपदेशित्वात् । त्वं कि० अस्ता क्षिप्ता परित्यक्ता इति यावत् । अत्ता माता उपलक्षणत्वात् सांसारिककुटुम्बं येन स अस्तात्तः तथा आः कामः तस्य ‘म्लै'धातोः “इकिश्तिव् स्वरूपार्थे" [५।३।१३८] इति तिवि म्लायतिर्मालिन्यम् तं करोति णिजि क्विपि आम्ला Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148