Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 97
________________ ६८ प्रद्यति छिनत्ति क्विपि परमते " ईर्व्यञ्जनेऽयपि” [ ४।३।९७ ] इति ईकारे अदीप्रदीर्जिनः तं ' पनि स्तुतौ' [ ७४८ ] इति पनायति स्तौति क्विपि "अशविते वा" [ ३।४।४ ] इति 'आय' प्रत्ययाभावे " अहन् - पञ्चमस्य० " [ ४|१|१०७ ] इति दीर्घे सौ “नाम्नो नोऽनहः" [ २|१|९१ ] इति नलोपे अदीप्रदीपा अनुस्वराभावश्चित्रत्वान्न दोषाय - ॥६१॥ सिद्धये वर्धमानः स्यात् वाम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ ६२॥ [ सिद्धये वर्धमानस्तात् ! ताम्रा ! यन्न खमण्डली | प्रेत्यूहशलभप्लोषे दीमदीयाँ कुरा येते ||६२|| ] [ १ सित् ! संबोधनम् । २ हयेव क्रियापदम् सप्तम्या अस्मत्पुरुषस्य द्विवचनम् । ३ ऋद्ध+ अहम् = ऋद्धमान् द्वितीयाबहुवचनम् 'ताः' इत्यस्य विशेषणम् । ४ अस्त+अत्=अस्तात् ! संबोधनम् । खित्+हयेव+ऋद्धमान् + अस्तात् = सिद्धयेवर्धमानस्तात् । ५ ताः द्वितीयाबहुवचनम् । ६ म्लाःम्राः संबोधनम् । ७ यत्+नयन्न ! संबोधनम् । ८ ल=लि | ख+मण्ड + लि-खमण्डली - प्रथमाद्विवचनम् । 'हयेव' इत्यस्य क्रियापदस्य कर्तुर्विशेषणम् । ९ प्रत्यूहशलभप्लोषे सप्तम्या एकवचनम् । १० दीप्रदीपाङ्कुराः 'ताः' इत्यस्य विशेषणम् । ११ यतेः पञ्चम्या एकवचनम् यते । ] व्याख्या- कश्चित् साधुर्वैराग्यतः स्वमात्मानं प्रति कथयन्नस्ति तद्यथा - अस्तं पश्चिमाद्रिम् 'अत सातत्यगमने' [ २७९] अतति क्विपि अस्तात् सूर्यः स इव तस्य सं० हे अस्तात् ! सूर्यसदृश ! | म्लायति कर्मभिरिति म्लास्तस्य सं० हे म्लाः ! तथा यन् गच्छन् “नः पुनर्बन्ध - बुद्धयोः " [ ] इत्येकाक्षरवचनात् नः कर्मबन्धो यस्मात् यन्नः तस्य सं ० है यन्न ! असाधारणविशेषणैरात्मा लभ्यते । आत्मा खलु केवलः सूर्यवद् दीप्र एव भाति, कर्मावलिप्तः सन् म्लानोऽपि सामग्रीविशेषेऽपगतकर्मा भवति इति विशेषणत्रयम् । तथा सिद्धिं सकलकर्मापगमोद्भूतां मुक्तिं करोति णिजि क्विपि सित् तस्य सं० हे सित् । सिद्धिगामिन् ! आवाम् ' यम् उपरमे' [३८६] स्त्रियां तौ यतिर्व्रतम् तस्याः सकाशात् ताः स्वर्गापवर्गादिलक्ष्मीः हयेव गच्छेव । अत्र 'य हर्य क्लान्तौ च' [ ३९७] इति चानुकृष्टगत्यर्थात् हयतेः सप्तम्यां सिद्धम् । आवां किं० खं स्वर्गस्तस्य मण्डो भूषणं तस्मिन्, “ल इन्द्रे चलनेऽपि " [ ]इत्येकाक्षरवचनात् ल इन्द्रस्तस्यापत्ये ली " अत इञ् " [ ६ । १ । ३१ ] इति इञि द्विवचने ली यथा ली इन्द्रसुतौ स्वर्गं भूषयतः, तथा आवामपीत्यर्थः । अत्र साधोस्तदामन चैक्येऽपि 'तैलस्य धारा' 'सर्प आत्मानम् - आत्मना आत्मानम् - वेष्टयति' इतिवत् Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148