Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 95
________________ ६६ सिद्धये वर्धमानः स्तात् . ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाकायते ॥६॥ [ सिद्धयेवैध ! मानस्तात् तो ब्रायन्न ! खमण्डली। प्रत्यूँहशल ! अभप्लोषेदी ! मैंदीपाङ्कुरा यते" ॥६०॥] [१ सित् ! संबोधनम् ! २ 'हयेव' सप्तम्या अस्मत्पुरुषस्य द्विवचनम् । ३ ऋद्ध ! संबोधनम् । ४ मा+न+अस्+ता-बहुव्रीहौ ह्रस्वत्वे-०तमानस्तात्-पञ्चम्या एकवचनम् । ५ ताः द्वितीयाबहुवचनम् । ६ म्लाय+न+म्लायन्न-म्रायन्न ! संबोधनम् । ७ खमण्डली:द्वितीयाबहुवचनम्-खमण्डली-'हयेव' इत्यस्य कर्म । ८ प्रति+ऊ+ह+शल्क्-प्रत्यूहशल ! संबोधनम् । ९ अ+भा-अभ+प्लोष+इ+दी:-अभप्लोषेदी | संबोधनम् । १० प्रदीपाकुरा द्वितीयाबहुवचनम् 'खमण्डली' इत्यस्य विशेषणम् । ११ यतेः षष्ट्या एकवचनम् ] व्याख्या-कश्चित् साधुःः कंचित् साधु प्रति कथयन्नस्ति । 'षिधू गत्याम्' [ ३२० ] सेधसि जानासि तत्वातत्त्वमिति सित् तस्य सं० हे सित् ! । म्लायति शतरि म्लायन् “नः पुनर्बन्ध-बुद्धयोः" [ ] इत्येकाक्षरवचनात् नो बन्धो यस्मात् स म्लायन्नस्तस्य सं० हे म्लायन्न ! । तथा प्रतिपूर्वाद् 'अव रक्षण' [४८९] इति दहनार्थाद् अवः कर्तरि क्विपि ऊटि प्रत्यूर्दाहको "हो हस्ते शूलिनि" [ ] इत्येकाक्षरवचनात् हो रुद्रो यस्य स प्रत्यूहः कामस्तं शल्कयति खण्डयति क्विपि सौ “पदस्य" [२।१४८९] इति कलोपे हे प्रत्यूहशल्लू ! हे ऋद्ध ! संयमश्रियेति शेषः । तथा अः कृष्णस्तस्मिन् भाति "क्वचित्" [५।१।१७१] डे अभः कृष्णविषयः-'लुषश् स्नेहन०' [१५६२] इति धातोघेञि-प्लोषः स्नेहो यस्य निजपितृत्वात् स अभप्लोषः स स चासौ इश्च कामश्च अभप्लोषेः तम्-'दीच् क्षये' [ १२४४ ] इति दीयसे क्षयं नयसि विपि हे अभप्लोषेदीः ! हे साधो ! आवां यतेः स्वगुरोः सकाशात् खमण्डलीमा॑नमण्डलीः हयेव जानीयावेत्यर्थः । अत्र 'हय हर्य क्लान्तौ च' [ ३९७] इति चानुकृष्टगत्यर्थात् तस्य ज्ञानार्थत्वात् हयधातोः सप्तम्यस्मदर्थद्विवचने रूपसिद्धिः । किम्भूता खमण्डलीः ? ताः प्रसिद्धाः । पुनः किं० आन्तरतमःक्षयकारित्वात् प्रदीपाङ्कुरा इव प्रदीपाकुराः प्रदीपसदृशा इत्यर्थः । यतेः किं० न 'असी गत्यादानयोश्च' [ ९३२ ] इति असति आदत्ते क्विपि अनेः भावे तलि अनस्ता-अग्रहणम्, मानां धन-धान्यलक्ष्मीणां अनस्ता अग्रहणं यस्य स तस्मात् मानस्तात् ॥६॥ १ असति इति अः, न अः अनः इत्येवं बोध्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148