Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 93
________________ ६४ शास्त्रं तद् यान्ति श्रयन्ति “आतो डः०"[५।११७६] इति डे सिद्धयो विद्वान्-जात्येकवचनं-तस्मिन् सिद्धये । किम्भूते ? उत्तमत्वान्नखैः कृत्वा. मण्डलं चन्द्रस्य सूर्यस्य वा बिम्बम् तद्वदाचरति क्यङि दीर्घ क्विपि यलोपे सप्तम्यां "लुगातोऽनापः" [२।१।१०७] इत्यालोपे नखमण्डलि । त्वं किं० 'ईच् गतौ' [१२५२] “गत्यर्था ज्ञानार्थाः" [हेमहंस० न्यायसं० पृ०९३ न्याय ४४]इति ईयसे जानासि तत्त्वातत्त्वमिति ईः क्विपि तत्त्वज्ञः॥५॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥५८॥ ['सिद्धये वैधमानस्ताऽऽत्ताऽम्रायन्नखमण्डली। पैंत्यहश ! लमें प्लोषेदी प्रदीपाडुरा यते ! ॥५८॥] [१ सिद्धये चतुर्थ्यन्तम् । २ वर्धमान+स्तन्+आत्त+अम्लायन्-वर्धमानस्तात्ताऽम्रायन् ।३ अ +ख+मण्डली+ई-अखमण्डलीः । °त्ताम्रायन्+अखमण्डलीः त्ताऽम्रायन्नखमण्डली । ४ प्रति++ ऊह+शो-प्रत्यूहशः अस्य संबोधने प्रत्यूहश ! ५ लभ द्वितीयपुरुषैकवचने क्रियापदम् पञ्चम्याम् ६ प्लोष 'लभ'वत् क्रियापदम् । ७ इ+इन्ध्-ईत्+ई-ईदि । अस्य इकारान्तस्य द्विवचनम्-ईदी। ८ प्रदीप+अकुर+अस-प्रदीपाकुराः प्रथमैकवचनम् । ९ यत+ई-यते-एकारान्तं पदम्-संबोधन कवचनम् ।] व्याख्या--'यमू उपरमे' [३८६] "क्लीबे क्तः" [५।३।१२३] इति क्ते यतं व्रतम् । ईयते गच्छति क्विपि यतेः तस्य सं० हे यते ! साधो ! “अदेतः स्यमोहूं" [१।४।४४] इति सिद्धम् । 'अव रक्षण' [४८९] इति हिंसार्थात् 'भ्यादिभ्यो वा" [५।३।११५] इति क्विपि ऊटि ऊहिंसा तां प्रति लक्षीकृत्य, प्रत्यू:-हिंसाविषयः-यः ऊहः तर्कस्तं श्यति तनूकरोति “आतो डोऽह्वा-वा०" [५।१।७६] इति डे प्रत्यूहशस्तस्य सं० हे. प्रत्यूहश ! त्वं सिद्धये मोक्षाय आत्मनेपदस्यानित्यत्वात् पञ्चम्या हो लभ प्राप्नुहि । अत्र सिद्धेः कर्मत्वेऽपि सम्प्रदानविवक्षया चतुर्थी तथा चकाराध्याहारात् च पुनः किं.. इः कामस्तेन इन्धे दीप्यते क्विपि ईत् कामिजनस्तथा इः कामस्तयोरितरेतरद्वन्द्वे. ईदी कामि-कामौ प्लोष दहेत्यर्थः । साधुर्हि सेवकानां ब्रह्मचर्योच्चारणेन कामिजनाभावं करोति, तेषामभावे कामस्याप्यभाव इति । त्वं किं० प्रदीपाङ्कुर इवाचरति क्यङि क्विपि तल्लोपे अल्लोपे सौ प्रदीपाकुराः प्रदीपसदृश इत्यर्थः । प्रथमे पादे म-स-ज-भ-ग-गाः, द्वितीये स.न-ज-र-गाः, तृतीये न-न-स-न-साः, चतुर्थे न-न-न ज-याः , वर्धमानं. छन्द इति वर्धमानं . छन्दोविशेषः उपचारात् छन्दोऽनुशासनग्रन्थः अन्यान्यपि शास्त्राणि । 'स्तन शब्दे' [३२३] स्तनन्ति पठन्ति क्विपि "अहन्-पञ्चम" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148