Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 91
________________ ६२ सिद्धये वर्धमानः स्तात् तात्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ ५६ ॥ [ 'सिद्धये वैधमानः स्तात् ताम्रायन्न खमण्डली । प्रत्यूहशलँभप्लोषेदीप्रदीपाऽऽङ् कुरायते ! ॥ ५६ ॥ ] [१ चतुर्थीविभक्त्या एकवचनम् । २ वर्धमानः प्रथमान्तम् । ३ क्रियापदम् । ४ ताम्रायन् प्रथमान्तम् । ५ नः षष्ठीबहुवचनम् । ६ ख + मण्डलीम् = खमण्डलीम् । अन्त्यः अनुस्वारो न गण्यः ततः ० मण्डली । प्रत्यूहशलभप्लोष + ई + दोप्रदीप प्रत्यूह शलभप्लोषेदीप्रदीप ! संबोधनैकवचनम् । ८ आ + अ = आम् प्रथमैकवचनम् । ९ कु + रै+ण = कुरायः कु + राय + तेव् कुरायते ! संबोधनैकवचनम् । ] 6 ू व्याख्या " कुस्तु भूमौ शब्दे च" [ ] इत्येकाक्षरवचनात् कुः शब्दः तस्य कारणम् उपचाराद् व्याकरणादिशास्त्रमपि कुः तस्य ये 'कै गैंरैं शब्दे' [३८] इत्यतो रैधातो रायन्ति पठन्ति " तन् - व्यधि ०" [ ५ । १ । ६४ ] इति णे रायाः पाठिनः शिष्याः - इत्यर्थः तैः । ' तेब्रुङ् देवने' [८१६ ] इत्यतः तेवते विलसति क्विपि कुरायतेः तस्य सं० हे कुरायते ! उपाध्याय ! | तथा प्रत्यूहाः प्रतिकूला ऊहास्त एव शलभाः पतङ्गास्तेषां प्लोषो विनाशस्तस्मिन् ई शोभा तया दीप्रो यो दीपः प्रदीपः स इव तस्य सं० हे प्रत्यूहशलभप्लोषेदीप्रदीप ! । त्वं नखेत्यत्र श्लेषाद विसर्गलोपे नः अस्माकं खं ज्ञानं तस्य मण्डली श्रेणी तां 'वर्धन (ण) छेदन- पूरणयोः ' [१६६१] इत्यतो णिचोऽनित्यत्वाद् अभावे वर्धति पूरयतीत्येवंशीलो' 'वयः-शक्ति-शीले" [ ५ । २ । २४ ] इति शनैर्वर्धमानः पूरयन् सन् सिर्द्धयेः शास्त्रादिकव्युत्पत्तये स्तात्भव - इति क्रियासंबन्धः । त्वं किं० ताम्रं धातुभेदः उपलक्षणत्वात् सुवर्णादि तत् संसारहेतुभूतत्वेन अस्यन्ति क्षिपन्ति ताम्रासो ये यतयो मुनयस्तानाख्याति पठनार्थमिति णिि क्विपि ताम्रायं । त्वं पुनः किं० आ समन्तानुस्वारवाच्यं परब्रह्म यस्य स धम् ॥ ५६ ॥ - Jain Education International = इति उपाध्यायं व्यावर्ण्य पञ्चमं परमेष्ठिनं सर्वसाधुं वर्णयति -- तथाहि -- १ 'सिद्धये' इति चतुर्थ्या एकवचनम् अतः अत्र 'सिद्धये' इति उचितम् । २ 'आम्' इति उचितम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148