Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 94
________________ ६५ [४|१|१०७] इति दीर्घे वर्धमानस्तानः- शिष्याः - तैरात्तः - अङ्गीकृतः परिवृतः सन् न ग्लायसि न म्लानीभवसि शतरि वर्धमानस्तात्ताम्लायन्-र-लयोरैक्यात् - सिद्धम् । पुनः किं० न विद्यते खानि इन्द्रियाणि प्रयोज्यतया यस्य स अखः । तथा मण्डल्यः सप्तसङ्ख्याका यतीनां प्रसिद्धास्ता ईयते गच्छति क्विपि मण्डलीः पश्चाद् विशेषणसमासे अखमण्डलीः ॥५८॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ ५९ ॥ [सिद्धये वर्धमाः ! नस्ताताऽऽम्रा ! येन्न खमण्डली । ॥ ५९ ॥ ] प्रत्यूहशल ! अंभप्लोषे दीर्घदीपां कुरो ! यते [ १ सिद्धयेव इति 'सिद्धि' शब्दस्य नामधातुत्वे क्रियापदम् - परस्मैपदे - सप्तम्या अस्मत्पुरुषस्य द्विवचनम् । २ ऋद्धमाः । संबोधनम् । ३ नः षष्ठी । सिद्धयेव+ऋद्धमाः + नः सिद्धये वर्धमानः । ४ ता+आत्त+आम्र+अस्= तात्ताम्राः ! संबोधनम् । ५ ई + अन्न - खमण्डली = यन्नखमण्डली | बहुव्रीहिसमासे " मण्डलि' इति । तस्य द्विवचनम् मण्डली । ६ प्रति + ऊह + शल्= प्रत्यूहशल संबोधनम् । ७ अ+भ+प्लोषे - अभप्लोषे सप्तम्या एकवचनम् । ८ दीप्रदीपाम् षष्ठीबहुवचनम् ९ कुल +अस् =कुलास्–कुलाः ! संबोधनम् । ततः 'कुरा' इति बोध्यम् । दीप्रदीपाम्+कुरा=दीप्रदीपांकुरा इति । १० यते ! संबोधनम् । ] व्याख्या-कश्चित् साधुः कंचित् साधुं प्रति वैराग्यं भावयन्नाह - हे यते ! साधो ! | हे ऋद्धमाः ऋद्धा ज्ञानादिलक्ष्मीसमृद्धास्तेषु माः चन्द्र इव ऋद्धमास्तस्य सं० | तया लक्ष्म्या आत्ता अङ्गीकृताः तात्ताः इभ्यास्तेषु विषये आम्रवत् सहकारवत् अससि शोभसे क्विपि तात्ताम्राः - तेषाम् आम्रवत् सन्तापहर इत्यर्थः - तस्य सं० है तात्ताम्राः ! । तथा ऊहं वितर्कम् । 'शट रुजा- विशरण - गत्यवसादनेषु' [ १७५ ] इत्यतो " गत्यर्था ज्ञानार्था: " [ हैमहंस ० न्यायसं० पृ० ९३ न्याय ४४] इति शटति जानाति क्विपि ऊहराइ-ड लयोरैक्याल्लत्वे - ऊहशल तस्य सं ० हे ऊहशल ! विचारज्ञ ! तथा र-लयोरैक्यात् कुलेन वंशेन अससि शोभसे कुलास्तस्य सं० हे कुलाः ! कुलीन ! आवां न आत्मनामेव सिद्धयेव सम्यक्क्रियानुष्ठानेन सिद्धिं मोक्षं कुर्याव इति क्रियासम्बन्धः । अत्र सिद्धिशब्दात् निजि सप्तम्या अस्मदर्थद्विवचने 'सिद्धयेव' इति सिद्धम् । 'नः' इत्यत्र बहुवचनं पूज्यत्वान्निर्दूषणम् । नः किं० अः कृष्णस्तस्माद् भवति " क्वचित् " [५।१।१७१] डे अभः कामस्तस्य लोषे दाहे दीप्रवद् वह्निवद् दीप्यामहे - " क्विप्” [ ५|१|१४८ ] इति क्विपि अभप्लोवे - दीप्रदीपस्तेषाम् । यथा वह्निः सर्वं दहति तथा वयमपि काममिति । तथा आवां कथम्भूतौ ? यन्नखमण्डली ई पृथिवी, तत्स्थलोका अपि ई, तस्या अन्नमित्र अन्नं जीवनम् खमण्डली ज्ञानश्रेणिर्ययोस्तौ अन्नखमण्डली अत्र अनित्यत्वात् कजभाषे “गोश्चान्ते हूस्वः ०” [२।४।९६] इति हूस्वत्वे प्रथमाद्विवचने मण्डली इति रूपसिद्धिः ॥५९॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148