Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 98
________________ ६९ पार्थक्यविवक्षा | ता लक्ष्मीः कि० ऋद्धः समृद्धोऽहं याभ्यः सकाशात् ताः ऋद्धमान् अत्र समासान्तर्गतास्मच्छन्द स्यैकवचनत्वान्मादेशः । शेषं सुगमं सूत्रादिकम् । पुनस्ताः किं० दीप्रदीपाङ्कुरा इव दीप्रदीपाङ्कुराः । कस्मिन् ? प्रत्यूहा विघ्नास्त एव शलभाः पतङ्गास्तेषां प्लोषे दाहे ॥ ६२ ॥ ता+अदृ= सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ ६३ ॥ [[सिद्धेये वर्धमानस्तत् तात्री येन्नखमण्डली । प्रत्यू - हशल-भप्लोऽषे दीर्घदीपां कुरों यते" ॥ ६३ ॥] [१ सिद्धये चतुर्थ्यन्तमेकवचनम् । २ वर्धमानः प्रथमाया एकवचनम् । ३ तात् प्रथमेकवचनम् । ताम्र + अस्= ताम्राः प्रथमैकवचनम् । ५ यत् + न + ख - मण्ड + लीः = यन्नखमण्डली :- प्रथमैकवचनम् - ० मण्डली | ६ प्रती + इ + ऊ +उ- हस = प्रत्यूहस - प्रत्यूहश+प्र+अय्=प्राय्= प्लाय्=प्लाः=प्रत्यूहशलभप्लाः+अष+इदी+रदीपाम् = प्रत्यूहशलभप्लोऽषेदीप्रदीपाम् । ७ अत्र 'अष' इति पञ्चम्या द्वितीयपुरुषैकवचनम् । प्र+अय् =प्राय् =प्लाय्= ततः प्ला इति जायते । प्लाः + अष इत्यस्य 'प्लोष' इति रूपम् असंभवि 'प्ला:' इत्यत्र विसर्गात् पूर्वस्मिन् भागे आकारस्य विद्यमानत्वात् । तथापि ग्रन्थकारेण केनापि प्रकारेण 'प्लोष' इति साधितम् । ८ प्लोऽष+ इदीप्रदीपाम् =० प्लोऽषे दीप्रदीपाम् । ० • प्रदीपाम् षष्ठीवहुचनम् । ९ कुः प्रथमा - स्थानम्. । १० आः ! संबोधनम् । कु: + आ = कुरा इति निष्पाद्यम् । ११ यतेः - पञ्चम्या एकवचनम् - यते । ] व्याख्या - "आ विधातरि मन्मथे” [ ] इत्येकाक्षरवचनात् आ कामस्तस्य सं ० है यः 1 काम ! त्वं यतेः सकाशात् 'अषी असी गत्यादानयोश्च' [९३१] इति धातोः पञ्चम्याम् अष-गच्छ— दूरं फ्लायस्वेत्यर्थः । त्वं किं० 'ञिइन्धेप् दीप्तौ' [१४९८ ] इत्यतो भावे " कुत्सम्पदादिभ्यः " [५/३/११४] क्विपि इत् दीपनम्, तदीप्सति क्विपि " पदस्य " [२।११८९] इति सलोपे विरामविवक्षया “घुटस्तृतीयः " [२।१।७६] इति तृतीयाभावे इदीप् । पुनः किं० “रस्तीक्ष्णे वैश्वानरे कामे” [ ]इत्येकाक्षरवचनाद् रो वह्निस्तद्वद् याः- दीपनं भावे क्विपि - दीपकान्त्यस्तासां रदीपाम् कुः स्थानम् । पुनः किं० तां लक्ष्मी धन-धान्यादिकाम् । 'अट्टि हिंसातिक्रमयो:' [६७४] अट्टते हिनस्ति क्विपि तात् अत्र दकारोपान्त्यात् अड्डेः " पदस्य” [ २ । १ । ८९] इति टलोपे सिद्धम् । अत एव किं० ताम्र धातुभेदः उपलक्षणत्वात् सुवर्णादि अस्यति क्षयं नयति क्विपि ताम्राः । पुनः किं० एतीति शतरि यती गच्छन्ती नो ज्ञानम् खं मुखम् एव मण्डः शोभा तस्य लीः श्लेषो यस्मात् स यन्नखमण्डलीः । पुनः किं० " वर्धमानो वीरजिने स्वस्तिकैरण्ड- विष्णुषु" [ हैम० अने० चतुःस्वरकां० श्लो० १५६१] इति मनेकार्थवचनाद् वर्धमानः एरण्डः स इव । कस्यै सिद्धये कार्यनिष्पत्तये । यथा एरण्डेन कार्यसिद्धिर्न स्यात् तथा त्वया सिद्धिर्न भवतीत्यर्थः । यतेः किं० Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148