Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 92
________________ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाइकुरायते ॥५७॥ [सिद्धये वर्धमा ! नः स्तात् ताम्राऽयमखमण्डली । प्रत्युहशलभप लोऽषेदीपदी पाङ्कुरा यते"! ॥५७॥] [१ सिद्ध + या = सिद्धया । अस्य सप्तम्येकवचने सिद्धये । २ वर्धमान -वर्धमान्वर्धमा - प्रथमैकवचनम् । ३ नः षष्ठीबहुवचनम् । ४ स्तात् क्रियापदम् । ५ ता + म्रद - ताम्र ! संबोधनैकवचनम् । ६ अयम् । ताम्र + अयम् - ताम्रायम् + नख० ताम्रायन्नख०। ७ ख + मण्डल + क्यङ् + क्विप् - खमण्डला । अस्य सप्तम्याम् खमण्डलि । • मण्डलि + ई - • मण्डलीः = मण्डली । ८ प्रति + ऊ + ऊह - शर + ब + भू- प्रत्यूहशलभप् + ल:=प्रत्यूहशलभप्लः । पदद्वयमपि प्रथमान्तम् । ९ अ+ष+इ-अषे समासान्तर्गत पदम् । १० दीप्रदीप + अङ्कुर + अस् = दीप्रदीपाकुराः प्रथमा । ११ यते ! संबोधनम् । ] व्याख्या-हे यते ! तां संसारहेतुभूतां लक्ष्मी 'म्रदिष् मर्दने' [१००४] इति म्रदते लक्षणया त्यजति "क्वचित्" [५।१।१७१]डे ताम्रः तस्य सं० हे ताम्र ! त्वं नः अस्माकं वर्धमानं जिनम् आख्याति णिजि क्विपि तयोर्लोपे "नाम्नो नो०"[२॥१॥ ९१] इति नो लोपे वधमा-श्रीवीरस्य वक्ता-स्तात् । त्वं कि० अयं प्रत्यक्षलक्ष्यः । पुनः किं० प्रतिकूला या-हिंसार्थादवेर्भावे क्विपि-ऊहिंसा तस्या यः अहो विमर्शः स एव र-लयोरक्यात् शरं जलं तस्मिन् । “वः प्रचेतसि कलशे" [ ] इत्येकाक्षरवचनाद् वः कलशस्तस्माद् भवति क्विपि बभूः अगस्तिस्तम् आख्याति णिजि विपि तल्लोपे सौ "दीर्घयाब्०" [१।४।४५] इति तस्या अपि लोपे चतुर्थान्तत्वाद् "ग-ड-द-बादेः०" [२।११७७] इति बस्य भत्वेऽतनस्य भस्य "धुटस्तृतीयः" [२।११७६] इति बत्वे विरामविवक्षया पत्वे प्रत्यूहशलभप् अत्र अग्रेतनलेन सहकीभावाद् विरामाभावेऽपि “संहितैकपदेनित्या, नित्या धातूपसर्गयोः । नित्या समासे, वाक्ये तुसा विवक्षामुपेक्ष्य (मपेक्ष)ते ॥" इति वचनाद् वाक्ये विवक्षया विरामो भवतीत्युपन्यस्तम् । पुनः किं० "षः श्रेष्ठे" इत्येकाक्षरान्ना योगे अषः अश्रेष्ठो य इ. कामः स एव “अग्नौ दीप्रः" हमकोषनाममाला श्लो० १७११] इति शेषवचनाद् दीप्रः अग्निस्तस्य दीप्यते इति.त्रि दीपो दीपनं तस्मिन् । “अङ्कुरं सलिले रोम्णि. रुधिरेऽभिनवोद्गगमे" । हैम० अनेका०सं० त्रिस्वरकां० श्लो०१११८] इत्यनेकार्थवचनात् अङ्गुरं जलं तहदससि शोभसे क्विपि अषेदीप्रदीपाङ्कराः। पुनः किं० "ल इन्द्रे चलनेऽपि च" [ ]इति वचनात् ल इव लः इन्द्रसदृश इत्यर्थः । कस्मिन् ? 'षिधू शास्त्र-माङ्गल्ययोः'[ ३२१] इत्यतोनपुंसके क्ते सिद्धं , "अग्नौ वमिर्दीप्रः समंतभुक"-हैमशेषनाममाला । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148