Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 90
________________ परे "व्योः" [१।३।२३] इति यलोपे वय् । एतावता सूरिः इति सिद्धम् । तथा रकारं दधाति "आतो डः०" [५।१।७६] इति डे हे र्ध ! एतावता सूर् इति सिद्धम् । तथा इकारम् एति गच्छति येः तस्य सं० हे ये ! एतावता सूरिः इति सिद्धम्, तस्य सं० हे सूरे ! आचार्य !। तथा "रो ध्वनौ तीक्ष्णे वैश्वानरे कामे" इति [ ] वचनात् रः कामस्तम् आयूर्वाद् 'यतण निकारोपस्कारयोः' [१७३८] इत्यतो णिचोऽनित्यत्वे आयतति पराभवति क्विपि रायत्-कामविध्वंसिका-[नः] संविद् यस्य स तस्य सं० हे रायन्न ! तथा 'दयि दान [गति]-हिंसा-दहनेषु च' [७९९] इत्यतः प्रपूर्वाद् भावे क्तौ “य्वोः प्वय०" [४।४।१२१] इति यलोपे परमते "अतः" [४।३।८२] इति अल्लोपे, “अघोषे प्रथमोऽशिटः" [१।३।५०] इति दस्य तत्वे प्रत्तिहिंसा ताम् 'अव रक्षण' ० [४८९] इति करणार्थादवेः, अवति करोति क्विपि ऊटि प्रत्यूहिंसाकारको “हो हस्ते दारुणि शूलिनि" इति[ ] एकाक्षरवचनात् हो हस्तो येषां ते प्रत्यूहा हिंसकास्तान् श्यति तनूकरोति "आतो डो०" [५।११७६] डे प्रत्यूहशलभा प्राप्तिर्यस्य तस्य सं० हे प्रत्यूहशलभ ! त्वं खं ज्ञानम्, तस्य कारणं तर्क लक्षणादिशास्त्रमपि खम् तस्य मण्डलं समूहस्तं अवश्यं करोति इति णिजि "णिन् चावश्यकाधमर्ये" [५।४।३६] इति णिनि च खमण्डली लक्षणादिशास्त्रकारको नोऽस्माकं स्तादिति क्रियासम्बन्धः । त्वं किं. तास्तस्करास्तत्सदृशा रागादयोऽपि तेषाम्-आपर्वात् तायते: “उपसर्गादातः" [५।३।११०] इत्यङि-आम्लां म्लानिं करोति णिजि क्विपि ताम् । त्वं पुनः किं० "मश्चन्द्रे शिरसि" []इति एकाक्षराद् मो मस्तकं तद्वदसति शोभते क्विपि मा मस्तकसदृशो मुख्य इत्यर्थः । कस्मिन् ? यते जितेन्द्रियलोके । पुनः किं० प्रकृष्टा, उषा रात्रिस्तस्याम् ई शोभा तया दीप्रो यो दीपाङ्कुरस्तद्वद् अप्ससि शोभसे क्विपि प्रोषेदीप्रदीपाङ्कुराः प्रकाशकत्वात् ।।५५॥ इत्येकार्थेन आचार्य वर्णयित्वा चतुर्थपरमेष्ठिनमुपाध्यायं वर्णयति-तथाहि१ अत्र 'प्रत्यूहशा लभा' इति पाठः समुचितः। २ ‘म्लायतेः' इति युक्तम् अन्यथा 'उपसर्गादातः' इत्यस्य प्रवृत्तिरेव न स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148