________________
परे "व्योः" [१।३।२३] इति यलोपे वय् । एतावता सूरिः इति सिद्धम् । तथा रकारं दधाति "आतो डः०" [५।१।७६] इति डे हे र्ध ! एतावता सूर् इति सिद्धम् । तथा इकारम् एति गच्छति येः तस्य सं० हे ये ! एतावता सूरिः इति सिद्धम्, तस्य सं० हे सूरे ! आचार्य !। तथा "रो ध्वनौ तीक्ष्णे वैश्वानरे कामे" इति [ ] वचनात् रः कामस्तम् आयूर्वाद् 'यतण निकारोपस्कारयोः' [१७३८] इत्यतो णिचोऽनित्यत्वे आयतति पराभवति क्विपि रायत्-कामविध्वंसिका-[नः] संविद् यस्य स तस्य सं० हे रायन्न ! तथा 'दयि दान [गति]-हिंसा-दहनेषु च' [७९९] इत्यतः प्रपूर्वाद् भावे क्तौ “य्वोः प्वय०" [४।४।१२१] इति यलोपे परमते "अतः" [४।३।८२] इति अल्लोपे, “अघोषे प्रथमोऽशिटः" [१।३।५०] इति दस्य तत्वे प्रत्तिहिंसा ताम् 'अव रक्षण' ० [४८९] इति करणार्थादवेः, अवति करोति क्विपि ऊटि प्रत्यूहिंसाकारको “हो हस्ते दारुणि शूलिनि" इति[ ] एकाक्षरवचनात् हो हस्तो येषां ते प्रत्यूहा हिंसकास्तान् श्यति तनूकरोति "आतो डो०" [५।११७६] डे प्रत्यूहशलभा प्राप्तिर्यस्य तस्य सं० हे प्रत्यूहशलभ ! त्वं खं ज्ञानम्, तस्य कारणं तर्क लक्षणादिशास्त्रमपि खम् तस्य मण्डलं समूहस्तं अवश्यं करोति इति णिजि "णिन् चावश्यकाधमर्ये" [५।४।३६] इति णिनि च खमण्डली लक्षणादिशास्त्रकारको नोऽस्माकं स्तादिति क्रियासम्बन्धः । त्वं किं. तास्तस्करास्तत्सदृशा रागादयोऽपि तेषाम्-आपर्वात् तायते: “उपसर्गादातः" [५।३।११०] इत्यङि-आम्लां म्लानिं करोति णिजि क्विपि ताम् । त्वं पुनः किं० "मश्चन्द्रे शिरसि" []इति एकाक्षराद् मो मस्तकं तद्वदसति शोभते क्विपि मा मस्तकसदृशो मुख्य इत्यर्थः । कस्मिन् ? यते जितेन्द्रियलोके । पुनः किं० प्रकृष्टा, उषा रात्रिस्तस्याम् ई शोभा तया दीप्रो यो दीपाङ्कुरस्तद्वद् अप्ससि शोभसे क्विपि प्रोषेदीप्रदीपाङ्कुराः प्रकाशकत्वात् ।।५५॥
इत्येकार्थेन आचार्य वर्णयित्वा चतुर्थपरमेष्ठिनमुपाध्यायं वर्णयति-तथाहि१ अत्र 'प्रत्यूहशा लभा' इति पाठः समुचितः। २ ‘म्लायतेः' इति युक्तम् अन्यथा 'उपसर्गादातः' इत्यस्य प्रवृत्तिरेव न स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org