________________
अङ्कुरः प्ररोहः तस्मै दीपाङ्कुराय तेजःप्ररोहाय ते तव 'भवतु'इति क्रियाशेषः । सिद्धः किं० 'इण्क् गतौ' [१०७५] एति जानाति "मन्-वन् क्वनिप्." [५।१।१४७] इति वनि एवानो विचक्षणास्तेषु ऋद्धः समृद्धो 'मानि(न)ण पूजायाम्' [१९६९] इत्यतो घनि मानः पूजा यस्य स एवर्धमानः । पुनः किं० "तस्तु तस्करे" [] इत्येकाक्षरवचनात् ताश्चौराः तान् अत्ति भक्षयति तृचि तात्ता चौरान्तकः-इत्यर्थः-सेवकानां तेभ्यो रक्षकत्वात् । पुनः किं० न म्लायन् न म्लानीभवन्नित्यर्थः। यतः खं ज्ञानम्, तेन मण्डलं बिम्ब विद्यते यस्य स मण्डली. सूर्यः स इव -यथा सूर्यो विश्वदृश्वा तथा ज्ञानेनायमपि । पुनः किं० प्रत्यूहा विघ्नाः तान् ‘शठ कैतवे च' [२२२] इति चानुकृष्टहिंसाऽर्थात् शठेः शठति हिनस्ति क्विपि प्रत्यूहशल ध्यातृणां विघ्नहर इत्यर्थः । ते किं० अः कृष्णस्तस्माद् भवति “क्वचित्" [५।१।१७१] डे अभः कामः तस्मिन् प्रकृष्टः उः ईश्वरः तस्य अभप्लोः श्लेषाद् विसर्गलोपः । यथा ईश्वरेण कामो दग्धस्तथाऽनेनापीत्यर्थः ॥५४॥
इति वृत्तार्थद्वयेन सिद्धं वर्णयित्वा क्रमागतं तृतीयपरमेष्ठिनम् आचार्य वर्णयति तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीमाङ्करायते ॥५५॥ ['सिद्ध ! ये ! वर्ष ! मानः स्तात ताऽऽम्रार्यन्न ! खमण्डली ।
"प्रत्यूहशलभ ! "मोषेदीमदीपाङ्करा "यते ॥५५॥] [१ स+इद्ध-सिद्ध ! संबोधनम् । अनया 'स+इद्ध' इति व्युत्पत्त्या 'स्' सूचितः । २ इ+ए -ये एकारान्तं संबोधनम् अनेन 'इ'कारः सूचितः । ३ ऊ+अय-वय् । +धम्र्ध, वय+र्ध इत्यनयोः सन्धौ वर्ध ! संबोधनम् । अत्र 'वय'पदेन 'ऊ'कारः सूचितः तथा 'ध'पदेन 'र' सूचनम् । एवं च 'स+++इ' इत्येतेषां वर्णानां सयोगे 'सूरि' इति पदं निष्पादितम् । ४ म+अस्-माः प्रथमान्तम् । ५ नः षष्ठी । ६ 'स्तात्' इति क्रियापदम् । ७ त+आम्ला-ताम् प्रथमान्तम् । ८ र+आयत्-राय-रायन् संबोधनम् । अत्र ग्रन्थकारः 'न'पदसाधनं विस्मृतवान् तच्च संविद्-वाचक'न' पदेन पूरणीयम् ततः 'ताम्रयन्नख' इति ज्ञेयम् । ९ खम डल+णिन् खमण्डली प्रथमान्तम्। १० प्र+दय+ति-प्रत्ति+ऊ+ह+श+लभा प्रत्यूहशलभ! संबोधनम् । ११ प्र+उषा+ईप्रोषे+दीप्रदीपाङ्कुर+अस= प्रोषेदीप्रदीपाकुराः-प्रथमान्तम् । अत्र 'प्रोषे' इत्यस्य 'प्लोषे' बोध्यम्। १२ यते सप्तम्या एकवचनम् । ]
व्याख्या-'स्' कारेण इद्धो दीप्तस्तस्य सं० हे सिद्ध ! एतावता स् इति सिद्धम् । तथा ऊकारम् 'अयि गतौ' [७९०] इत्यतो अयते गच्छति विचि “य्वोः प्वय०" [४।४।१२१] इति यलोपे वः । विचि तु व्यञ्जनकार्यानित्यत्वे पश्चाद् घोषवात
१-अत्र ईदृशः पाठः समुचितः-" य्वोः प्वय्०” [४।४।१२१] इति विचि व्यञ्जनकार्या:नित्यत्वे यलोपो न जातः किन्तु घोषवति परे ( अर्थात् 'वय+धु' इति अवस्थायाम् ) “व्योः" [१1३।२३] इति यलोपे वः, एतावता 'सूः' इति सिद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org