________________
व्याख्या है येवर्ध ई मुक्तिरूपा लक्ष्मीस्ताम् 'इणक गतौ' [१०७५] इत्यतो यन्ति गच्छन्ति “मन्-वन्-क्वनिप्०" [५।१।१४७] इति वनि "नामिनो गुणः०' [४।३। १] इति गुणे येवानो मुक्तास्तेषु ऋद्धः समृद्धस्तस्य सं० तथा हे सिद्ध ! हे दीप ! दीप्यते इत्येवंशीलो दीप्रस्तस्य सं० । त्वं नखेत्यथ(त्र) विसर्गलोपे नः अस्माकं प्रत्यूहा विघ्नास्त एव शलभाः पतङ्गास्तेषां प्लोषे दाहे दीपाङ्कुर प्रदीपवदाचर इत्यर्थः । त्वं किं. 'इण्क् गतौ' [१०७५] इत्यतः अयनं 'युवर्ण-वृ-दृ०" [५।३।२८] इति अलि अयो ज्ञानम् तेन ' तेवृङ् देवृङ् देवने' [८१६] इत्यतो तेवते क्रीडति विचि "थ्वोः प्वय." [४।४।१२१] इति यलोपे अयतेः । अत एव किं० खं ज्ञानम्, तस्य मण्डलं समूहो विद्यते यस्य स खमण्डली "अतोऽनेकस्वरात्" [७२।६] इनि । त्वं पुनः किं० मनश्चित्तं तदेव मुक्त्यादिसुखापहारकत्वात् तश्चौरः “ तस्येदम्" [ ६।३।१६० ] इति अणि वृद्धो मानस्तं यत् आदानम् “क्लीबे क्तः" [५।३।१२३] इति क्ते आत्तं ग्रहणं वशीकरणमिति यावत्, तेन तस्मिन् वा न म्लायति क्विपि म्लानास्ताताम्राः योगीन्द्रः स एव । 'इंक् स्मरणे' [१०७४] इत्यतो(तः) एति स्मरति शतरि "इको वा" [४।३।१६] इति यत्वे यन् स्मृतिकारको यस्य स मानस्तात्ताम्रायन् योगिध्येय इत्यर्थः । अत्र यस्मिन्नित्यस्य विशेषणत्वेऽपि विशेषविवक्षया न पूर्वनिपातः ॥५३॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कायते ॥५४॥ ['सिद्धयेवैर्धमानस्ताऽत्ता मायन् नै खमण्डली ।
"प्रत्यूहशल् अभप्लो पेदी ! दीपाङ्कुरायते ॥५४॥] . [१ सिद्धः इति प्रथमान्तम् । सिद्धः+एवर्ध • सिद्धयेवर्ष ० । २ इ + वन्-एवन्+ऋद्ध+ -एवर्ध+मान: एवर्धमानः प्रथमान्तम् । अत्र 'भवतु' क्रिया गम्या । ३ अद्+तृ-अत्ता। त+अत्ता -ताऽत्ता। ४ म्लायन्-म्रायन् । 'न' इत्यस्य अनेन 'म्लायन्'पदेन संबन्धः अर्थात् न म्लायन् इति । ५ न निषेधवाची। ६ खमण्डली-ख+मण्डल+इन्-खमण्डली प्रथमान्तम् । ७ प्रत्यूह+शल -प्रत्यूहशल-प्रथमान्तम् । ८ अ+भू+प्र+उ:-अभप्रोः अभप्लोः षष्ठया एकवचनम् । ९ ष+ईषे +दीप्र=षेदीप्र! 'धे' इति एकारान्तं पदम् । १० दीप्र! । ११ दीपाङ्कुराय चतुर्थ्या एकवचनम् । १२ ते तव स्तात् -भवतु-इति क्रिया अध्याहार्या ।]
व्याख्या-हे षेदीप्र! "षः श्रेष्ठे" [] इत्येकाक्षरवचनात् षा श्रेष्ठा या ई लक्ष्मीस्तया दीप्रो दीपनशीलः इभ्यस्तस्य सं० । सिद्धो मुक्तः। घञि दीपनं दीपः-कान्तिः-तस्य
१ अत्र 'ह' वर्णः अनुपयोगी अतः 'येवर्ध' इति स्यात् अथवा हे येवर्ध ! इति स्यात् । २ अत्र 'मानस्तात्ताऽम्राः' इति पाठः उचितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org