________________
५८
व्याख्या-वा एवार्थे । हे ऋद्धमान ! ऋद्धः समृद्धः प्रमाणातीतो 'बुधिं मनिंच् ज्ञाने' [१२६३] इति मननं मानो ज्ञानं यस्य स ऋद्धमानस्तस्य सं० हे ऋद्धमान ! जिन !। ताम्रायन्नख ! ताम्रवदाचरणं कर्तुः क्विपि धातुत्वात् “शंसि प्रत्ययात्" [५ । ३ । १०५] इ[सि] 'अ' प्रत्यये ताम्रा ताम्रवदाचरणम् ताम् 'इण्क् गतौ' [१०७५] इत्यतो शतरि यन् गच्छन् नखं यस्य स ताम्रायन्नस्वः तस्य सं० त्वम् । प्रपूर्वाद् 'दयि दान-गति-हिंसा-दहनेषु' [७९९] इति, अतः क्तौ " य्वोः प्वय०" [४ । ४।१२१] इति यलोपे “अतः" [४ ।३। ८२] इति अल्लोपे “अघोषे प्रथमोऽशिटः" [१ ! ३ । ५०] इति दस्य तस्वे प्रत्तिहिंसा तस्याम् ऊहो विचारः स एव शलभः पतङ्गः तस्य प्लोषो दाहस्तस्मिन् प्रदीपो दीपस्तद्वदाचरन्ति क्यङि क्विपि षष्ठ्या बहुवचने आमि"लुगातोsनापः"[२।१।१०७]इति आलोपे 'प्रदीपाम्-प्रदीपवदाचरताम्-दयावताम्-इत्यर्थः -पुरुषाणां सिद्धये स्तादेव-भव एव-इत्यर्थः । त्वं किं० "मण्डलः भुजङ्गभेदे परिधौ शुनि हादशराजके" [ हैम० अनेका० सं० त्रिस्वरकां० श्लो० १२७५] इति अनेकार्थवचनाद् मण्डलं श्वानमिवाचरति गणयति "आधाराच्चोपमानादाचारे" [३ । ४ । २४] इति क्यनि "क्यनि"[४।३।११२] "इति ईकारे क्विपि "अतः"[४।३।८२] इति अल्लोपे "प्वोः प्वय०"[४।४।१२१]इति यलोपे मण्डलीः । कस्य ? कुः पृथ्वी तस्यां रो वैश्वानरःतद्वद् असति शोभते क्विपि कुराः पृथ्वीजनमनःसन्तापकत्वात् । ईदृशी अता अलक्ष्मीर्यस्मात् स कुरायतः, ईदृशो यः इः कामः तस्य कुरायते:-अयमर्थः यथा श्वा तुच्छपराक्रमो जनैहाद् बहिर्निष्कास्यते तथा त्वयाऽपि कामः शरीराद् बहिरित्यर्थः॥ ५२॥ इति वृत्तषट्केन सामान्यजिनं वर्णयित्वा प्रसिद्धं वर्णयति-तथाहि -
सिद्धये वर्धमानः स्तात् ताम्रा यमखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाइकुरायते ॥५३॥ ['सिद्ध ! येवैध ! मानस्ताऽऽत्ताऽम्रा पॅन ने खमण्डली।
प्रत्यूहशलभप्लोषे दीप ! दीपाकुराऽयते ॥५३॥] [१ हे सिद्ध ! । २ हे येवर्ध ! इ+वन्-एव । ई+एव-येव+ऋद्ध-येवर्ध ! । ३ मनस्त-मानस्त +आत्त+अम्ला:-मानस्तात्ताऽम्राः प्रथमैकवचनम् । ४ यन्-प्रथमैकवचनम्-इ+अत्-यत्-यन् । ५नः -अस्माकम् । ६ख मण्डलीप्रथ मान्तम् । ७ दीप+अङ्कुर-दीपाकुर ततः नामधातुरूपं क्रियापदम् पञ्चम्या द्वितीयपुरुषैकवचनम् । ८ दीपाकुर+अयतेः दीपाकुरायते; प्रथमान्तम् । अय+तेव
अयते इति एकारान्तं पदम् । ] 1 'दीप्रदीपाम्' इति युक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org