________________
५७
ब्रह्म तेस्य “इकिश्तिव्०" [ ५|३|१३८ ] इति इप्रत्यये, ल-डयोर्व्यत्यये अण्डलि : युक्त्या स्थापनविलासः तम् ‘ईङ्च् गतौ' [१२५२] ईयते गच्छति क्विपि अंडली: ब्रह्माऽद्वैतवादी पुरुषो न अषेत्-न श्रयति - कर्मबाहुल्यात् तुभ्यं नोपलक्षयतीत्यर्थः । किं• अः कृष्णः तेन भान्ति शोभन्ते " क्वचित्" [ ५।१।१७१ ] डे अभाः मिथ्यात्विकाः तान् प्लवते गच्छति " क्वचित्" [ ५।१।१७१ ] डे अभप्लः मिध्यादृप्रिय इत्यर्थः । पुनः किं० आ समन्तात् ईयन्ते जानन्ति तत्त्वातत्त्वमिति " मन्वन् क्वनिप्०" [५।१।१४७] इति क्वनिषेि एवानो विज्ञाः तेषु विशेषधीमत्तया ऋद्धाः समृद्धास्तेषु मध्ये मानं मौध्येन अभिमानं करोति णिजि क्विपि सौ “ नाम्नो नो० " [२।१।९१] इति नलोपे वर्धमा विज्ञेषु पण्डितम्मन्य इत्यर्थः । पुनः किं० ‘कैं गैं रैं शब्दे' [३८] इति रैधातोश्शतरि रायन् वढदैन् किं० खं शून्यम् 'एकमेव शून्यं वर्तते नान्यत्' इति वदन्नित्यर्थः । पुनः किं० 'न (ण) सिकौटिल्ये' [ ८५१] भावे तलि नस्ता कौटिल्यम् । तथा 'अट्टि हिंसाऽतिक्रमयोः ' [६७४] इति हिंसाऽर्थात् क्विपि " पदस्य " [ २ । १ । ८९ ] इति टोपे, भावे तलि अत्ता हिंसा, तथा आमा रोगाः द्वन्द्वे तान् — निजाश्रितानां संसारकोटरे पातकत्वात् — करोति णिजि क्विपि भ्वादेरभावात् "मो नो म्बोश्च” [ २ । १ । ६७ ] इति नत्वाभावे नस्तात्ताम् । तुभ्यं किं० ? सिद्धिं मोक्षं निजसेवकानां करोति णिजि क्विपि चतुर्थ्यां सिद्वे । पुनः किं० ईप्रदीपाङ्कुराय - ई पृथ्वी तस्यां प्रदीपकुराय दीपसदृशाय ॥ ५१ ॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥ ५२ ॥
[ सिद्धये वर्धमान ! स्तात् ताम्रायन्नख ! मेण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ् कुरायते ॥ ५२ ॥ ]
[ १ सिद्धये चतुर्थ्यन्तम् । २ वा + ऋद्ध + मान = वर्धमान ! संबोधनैकवचनम् । अत्र 'वा' 'एव' अर्थे । ३ स्तात् भवतु एव । ४ ताम्रा + यत्+नख = ताम्रायन्नख ! संबोधनम् । ५ मण्डल +क्य=मण्डलीः=मण्डली । ६ प्र+त्ति ऊह = प्रत्त्यूह+ शलभ+प्लोषे = प्रत्त्यूहशलभप्लोषे सप्तम्या एकवचनम् ७ दीप्रदीपाम् - षष्ठीबहुवचनम् - दीप्रदीप + क्यङ् + वित्रप् = दीप्रदीपा + आम्-दीप्रदीपाम् + कुरा ० सन्धौ दीप्रदीप कुरा० । ८ कु+र+अस्=कुरास्+अता = कुरायत + इ = कुरायतेः षष्ठ्या एकवचनम् । ]
१ अत्र तस्य ' इति पदस्य अनन्तरम् 'अ' इत्यनेन सह 'लड' धातोः सम्बन्धे-इति सुयुक्तम् । धातोर्निदेशं विना 'इ' प्रत्ययः कस्मात् व्यत्ययश्च केषाम् ? इति । २ तद्वद्वदन् - इति उचितम् अर्थात् यन् इव वदन् । ३ 'भावे जायमानः प्रत्ययः नाम्न एव भवति, न धातोः । अतः अत्र नसते इति 'नः' इति क्विवन्तं नाम निष्पाद्यम् पश्चात् नसो भावः इत्येवं तलि नस्ता इति निर्देशः उचिततरः ।
2
८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org