________________
विसालोपः । कि० नखरेणिः ? ताम्रा रक्तानुरागिणी या आ लक्ष्मी-दीप्त्यादिका ताम् आयच्छते विस्तारयतीति विपि “गमां क्यो" [४।२।५८] इति मलोपे "हस्वस्य तः पित्०" [४।४।११३] इति तोऽन्ते ताम्रायत् । पुनः ता. दीप्यते इत्येवंशीलः "स्म्य जस-हिंस-दीप - कम्प-कम-नमो रः" [५।२१७९] इति रे दीप्रो दीफ्नशीलो यो दीपः प्रदीपस्तस्याङ्कुरः प्ररोहस्तद्वदसति शोभते किपि दीप्रदीपाकुराः । अत्र पादपूरणे अकारे अग्रे सति "रोयः" [१।३।२६] इति यत्वे कुराय इति रूपसिद्धिः । ते तव कथं० "वर्धमानो वीरजिने स्वस्तिकैरण्ड-विष्णुषु" हैम० अनेकार्थसं० चतुःस्वरका श्लो० १५६१] इति अनेकार्थवचनाद् वर्धमानस्तद्वदाचरति "क्य" [३।४।२६] इति क्यङ्प्रत्यये "दीर्घरिच्व०" [४।३।१०८] इति दीर्धं वर्धमानायते इति किपि “य्वोः प्वय०"[४।४।१२१] इति यलोपे पश्चात् षष्ठयां "लुगातोऽनापः" [२।१।१०७] इत्यालोपे वर्धमानः स्वस्तिकवत् त्रिजगतां मङ्गलहेतुः-इत्यर्थः ॥५०॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥५१॥ 'सिद्धयेवैर्धमा नस्ताऽऽत्ताऽऽम् रॉयन् ने खम् अण्डली ।
'प्रत्यूहशल् ! अभप्लोऽषेद् ईमदीपाङ्कुराय ते" ॥५१॥ [ १ 'सिद्धे' इति 'सिद्' इत्यस्य चतुर्थ्या एकवचने सिद्धे। २ आ+ई+वन्= एवा+ऋद्ध एवर्ध। मान-मान् , एवर्ध+मान्। एवर्धमा-प्रथमैकवचनम् । सिद्धे+एवर्धमा-सिद्धयेवर्धमा । ३ नस्+ता -नस्ता+अत्ता+आमनस्ताऽऽत्ताम्-प्रथमैकवचनम्। ४ रै+अतृ-रायन् । सिद्धयेवर्धमा+नस्तात्सिद्धयेवर्धमानस्तात् । ५ न निषेधवाची । ६ खम् द्वितीयैकवचनम् 'रायन्' इत्यस्य कर्म । ७अ+अ +लडूडल+ई अण्डलीः खम्+अण्डली-खमण्डली । ०ताम्+रायन्+न+खमण्डली-ताम्रायन्नखमण्डली । ८ प्रत्यूह+शल-प्रत्यूहशल संबोधनैकवचनम् । अभिप्लु+ड अभप्ल:-प्रथमैकवचनम् अभप्लः+अषेत्-अभप्लोऽषेत् । 'अषेत्' इति क्रियापदम् । ९ ई+प्रदीपाङ्कुराय 'ते' इत्यस्य विशेषणम्-चतुर्था एकवचनम् प्रत्यूहशल अभप्लोऽषेद्+ईप्रदीपाङ्कुराय-प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुराय । १० ते-तुभ्यम् । ]
व्याख्या-प्रत्यूहान् विघ्नान् 'शठ हिंसा-संक्लेशयोः' [२२२] इति हिंसाऽर्थात् शठेः शऽति हिनस्ति क्विपि "धुटस्तृतीयः" [२।११७६] इति ठो डवे, ड-लयोरैक्याल्लत्वे प्रत्यूहश ! जिन !। ते तुभ्यम् । 'अं ब्रह्मपरम्' [ ] इत्येकाक्षरात् अं, अः कृष्णो व्यापकत्वेन तत्सदृशं यत् शिरःस्थानुस्वास्वाच्यं परं , 'वर्धमानः' इत्यस्य षष्ठयन्तत्वेन साधितत्वात् अत्र 'मङ्गलहे तोः' इति युक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org