________________
५५
जीवितसदृशस्येत्यर्थः । जिनः किं० प्रत्यूहश नभः । प्रपूर्वात् 'तयि णयि रक्षणे च [७९७] इत्यतो भावे क्तौ “य्वोः प्वय्०" [४|४|१२१] इति यलोपे, “अतः " [४|३|८२] इति अल्लोपे प्रत्तिः रक्षणं जीवानामित्यर्थः । तथा 'अव रक्षण०' [ ४८९] इति गत्यर्थाद् भावे क्विपि ऊर्ज्ञानम्, ऊहो विचारः शं सुखम् तेषां द्वन्द्वे प्रत्यूहशं करोति णिजि, अचि प्रत्यूहालमा प्राप्तिर्यस्य स प्रत्यूहशलभः । पुनः किं० र-लयोरैक्यात् प्रकृष्टा “अनड़वाह्यनडुयुषा' [कां०४, १२६५ ] इति मौलावचनाद् उषा गौः प्रोषास्तस्या ई दुग्धादि - , लक्ष्मीस्तद्वद् दीप्रो दीपनं घञि दीपो दीप्तिर्यस्य तत् प्लोषे दीप्रदीपं यत् "अङ्कुरं सलिले रोम्णि रुधिरेऽभिनवोद्गमे ' [ हैम अने० सं० त्रिस्वरकां ० श्लो० १११८] इति अनेकार्थवचनाद् अङ्कुरं रुधिरं तेन असति शोभते क्विपि प्लोषे दीप्रदीपाकुराः, ततो रोर्यले सिद्धम् । जिनानां रुधिरं गोदुग्धसदृशं वर्ण्यते । पुनः किं० ता लक्ष्मीः 'अम् गतौ' [३९२] “इकिस्तिव् स्वरूपार्थे” [५।३।१३८] इति 'इ' प्रत्यये अभिः ज्ञानं तौ करोति णिजि क्विपि ताम् । अग्रे व्यञ्जनस्य विद्यमानत्वाद् अनुस्वारस्य प्राप्तावपि असन्धिविवक्षया तदभावः ॥ ४९ ॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥५०॥
[ सिद्धये वर्धमानः स्तात् तौम्राऽऽयत् नखमण्डली । मैत्यूहशलभ ! प्लीषेदी ! मँदीपाङकुरा येते ॥ ५० ॥ ]
[१ सिद्धये चतुर्थ्यन्तम् । २ वर्धमान् इत्यस्य वर्धमानः इति षष्ठयन्तम् ततरच 'यते' पदस्थितस्य 'ते' इति षष्ठ्यन्तस्य विशेषणम् । ३ क्रियापदम् । ४ ताम्र+आ+आयम् = ताम्राऽऽयत्- 'नखमण्डली' इत्यस्य विशेषणम् प्रथमान्तम् । ५ प्र+ति + ऊ + हस+लभा = प्रत्यूहशलभ ! संबोधनम् । ६ प्र+उष+ इ+ प्रोषे+दा=दी = प्रोषेदी : =प्लोषेदीः - संबोधनम् । ७ प्रदीप+अङ्कुर+अस्= प्रदीपाङ्कुरास् - प्रथमान्तम्दीपाकुराः । ८ अ+ते=अते । अत्र 'अ' - कारः केवलं पादपूरणार्थः । दीपाङ्कुरास्+अ-ते दीपा - कुरायते । ]
Jain Education International
व्याख्या-र-लयोरैक्यात् प्रकर्षेण उषति दहति जगदिति “नाम्युपान्त्य ० " [ ५|१|५४ ] इति के प्रोषो दाहकृत् यः इः कामस्तं द्यसि छिनत्सि क्विपि परमते “ ईञ्जनेऽयपि " [ ४|३ | ९७ ] इति ईकारे प्लोषेदीः तस्य सं० । हे जिन ! | हे प्रत्यूहशम ! प्रकृष्टा तिर्ज्ञानम् ऊ दीप्तिस्तयोः श-सयोरैक्यात् हसः प्रकाशः तस्य लभा प्राप्तिर्यस्य तस्य सं० । अ इति पादपूरणे । ते तव नखमण्डली नखश्रेणिः नः अस्माकं सिद्धये मोक्षाय स्तात् भवतु - इति क्रियासम्बन्धः । न इत्यत्र चित्रत्वाद १ हैमनाममाला । २ "अङ्कुरो रोम्णि सलिले रुधिरे अभिनवोद्गमे” इति पाठः अनेकार्थसङ्गहे ।
For Private & Personal Use Only
www.jainelibrary.org