________________
षणसमासे ताम्रायन् । पुनः किं. प्रत्यूहान् प्रतिकूलवितर्कान् शा ...यति खण्डयति विपि प्रत्यूहशश् । यते किं० न भाति क्विपि अभास्तस्यै अभः । कस्मिन् ? प्लोषणं प्लोषो दाहो हिंसेत्यर्थः तस्मिन् । नः किं० दीप्रो यो दीपस्तद्वदाचराम इति क्यङि क्विपि आमि' दीप्रदीपाम् । जिन: किं. कुं पृथ्वीं राति-दत्ते-क्विपि कुराः अर्थात् सेवकानामिति ॥४८॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायत्ते ॥४९॥ [सिद्धये वैध ! माऽऽनः स्तात् ता-ऽऽम् रायन्नख ! मण्डली ।
'प्रत्यहशलभ प्लोषे दीपदीपाऽङ्करा य-ते" ॥४९॥] [१ चतुर्थ्या एकवचनम् । २ वा+ऋद्ध-वर्ध ! संबोवनैकवचनम्। ३ मा+आन+य-मानाषष्ठया एकवचने-माऽऽनः 'अते' इत्यस्य विशेषणम् । अत्र ग्रन्थकारः "अचासो त्वं च अत्वम् , तस्मै अते विष्णुसहशस्य तव सिद्धये" इति निर्दिशन् चतुर्थी-षष्ठयोः अभेदं विवक्षति इति गम्यते । अन्यथा: 'तस्मै अते' स्थाने 'तस्य अतेः' इति समुचितम् । ४ स्तात् इति क्रिया । ५ ता अमि-णिच्-ता-sऽम्-प्रथमैकवचनम् । ६ रायत्+नख-रायन्नख! संबोवनम् । ७ मण्डली प्रथमैकवचनम् । ८ प्रति ऊ ऊह+श+प्रत्यूहश+लभा-प्रत्यूहशलभः प्रथमैकवचनम् । ९ प्र+उषा+ई+प्रोषे+दीप्रदीप+प्रोषेदीप्रदीप अङ्कुर+अस्-प्रोषेदीप्रदीगङ्कुरास--प्रथमैकवचनम् । प्रत्यूहशलभ प्रोषेदीप्रदीपाकुरास+अते--प्रत्यूहशलभ प्लोषे दीप्रदीपाङ्कुरा य-ते । १० अ+त्वत्अतेः षष्ठया एकवचनम् । ]
व्याख्या-वा एवार्थे । हे ऋद्ध! इभ्य! तथा "रैः स्वर्णे जलदे धने" [ ]इति एकाक्षरवचनात् रैः स्वर्णम् तद्वदाचरन्तः क्विपि शतरि रायन्तः स्वर्णसदृशा नखा यस्य स रायन्नखस्तस्य सं० हे ०ख ! भामण्डलशब्दस्य “ते लुगवा'[३।२।१०८]इति पूर्वपदलोपात् मण्डलं भामण्डलं विद्यते यस्य "अतोऽनेक स्वरात्" [७।२।६]इनि मण्डली जिनः अः कृष्ण इव अः । अश्वासौ त्वं च अत्यं तस्मै अते विष्णुसदृशस्य तव सिद्धये मुक्तये स्तात्-भवतु-इति सम्बन्धः । तव किं० माया लक्ष्म्या आन इव जीवितमिव आचरतः क्यङि क्विपि यलोपे षष्ठयां "लुगातोऽनापः" [२।१।१०७]इत्याकारलोपे मानः लक्ष्म्या
१ अत्र 'प्रत्यूहशलू' इति पदं निष्पाद्यम् अतः शलयति खण्डयति इति समुचितम् । ज्वलादिगणे धातुपाठे 'शल गतो' [९८४] धातुर्विद्यते ततः 'शलयति' इति भविष्यति । आदर्श तु 'शा...यति' इति रिक्तमध्याक्षरं लिखित विद्यते । २ 'न भाति' इति प्रक्रियया 'अभा' इति आकारान्तं स्यात् तस्य चतुर्त्या विभक्तौ एकवचने 'अमे' इति उचितम् परन्तु ग्रन्थकारेण' 'अभः' इति प्रदर्शितम् एतस्य संगतिः शब्दानां पृथक्करणरूपे विवेचने विहिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org