________________
सः "अतोऽनेकस्वरात्" [७२।६] इनि खमण्डली । पुनः किं० ऊहं विचारं श्यन्ति आतो डे ऊहशा रागादयः तेषां लवं छेदनं करोति णिजि क्विपि णिजः स्थानित्वाद् वलोपाभावे ऊहशलव् पश्चाद् घोषवति परे “व्योः" [१।३।२३] इति व्लोपः । पुनः कि० भैर्नक्षत्रै र-लयोरैक्यात् प्रः प्रकृष्टो य उषेनश्चन्द्रस्तं करोति णिजि क्विपि, तल्लोपे सौ “दीर्घयाब्०" [१।४।४५] इति तल्लोपे, “नाम्नो नो०" [२।१।९१] इति नलोपे भप्लोषे । कया ? दीप्रदीपा दीप्यमानकान्त्या ॥४७॥
सिद्धये बर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४८॥ [सिद्धयेबर्धमानः स्तात् ताम्रायन् ने खमण्डली ।
"प्रत्यूहशल्-अंभ 'प्लोषे दीपदीपाङ् कुरा यते ॥४८॥] [१ सित्+हयेब्+आ+ऋद्ध+मान सिद्धयेबर्धमानः-प्रथमान्तम्-अत्र बकारस्य 'व' इति उच्चारणम् । २ 'स्तात्' इति क्रियापदम् । ३ ताम्र+अस ताम्रास-प्रथमान्तम् । ४ इ+अन्त=यन्त् च्यन् प्रथमान्तम् । ताम्रास+यन् ताम्रायन् इति समस्तम्। ५ नः इति षष्ठी । ६ ख+मण्डल+ इन् खमण्डली प्रथमान्तम् । ७ प्रत्यूह+शल+अभः प्रत्यूहशलभः । अत्र 'प्रत्यूहशल' इति प्रथमान्तम् । अभः इति षष्ठयन्तम् अपि ग्रन्थकारसूचनानुसारेण चतुर्थ्यन्तं ज्ञेयम् । 'यते' इत्यस्य विशेषणम् । अत्र 'अभः' इत्यस्य विसर्गो न गण्यः । ८ अ+भा अभः । ९ · प्लोषे सप्तम्यन्तम् । १० दीप्रदीप+आम्-दीप्रदीपाम् षष्ठीबहुवचनम् । ११ कु+राः कुराः प्रथमैकवचनम् । दीपाम्+कुराः इत्यस्य • दीपाकुराः यते--इत्यस्य च संधौ-दीपाङ्कुरायते इति । १२ यत्+यते चतुर्थ्यन्तम् ।]
- व्याख्या-खक्त् सूर्यसदृशं मण्डलं भामण्डलं खमण्डलं तद् विद्यते यस्य सः "अतोऽनेकस्वरात्" [७ ।२।६] इनि खमण्डली जिनो नखेति विसर्गाभावात् मः
अस्माकम् यतनं "क्रुत्-सम्पदादिभ्यः०" [५। ३। ११४] इत्यत्र यतेः पाठात् क्विपि - यत् उद्यमस्तस्यै स्तात्-भवतु-इति क्रियासम्बन्धः । कि० सिध्यतीति क्विपि सित्
सम्पद्यमानो यो 'हिंद गति वृद्धयोः' [१२९५] इत्यतो “युवर्ण-वृ-दृ." [५। ३।२८ ] इति अलि यो ज्ञानं तम् ईसतीति क्विपि. सौ “पदस्य" [२।१ ८९ ] इति सलोपे "धुटस्तृतीयः" [२।१।७६ ] इति बत्वे सिद्धयेब् । पुनः किं० आ समन्तात् ऋद्धः "अवर्णस्येवर्णादिना०" [१।२ । ६] इति अरि अर्धः 'मनूयी बोधने' [ १५०७ ] घनि मानः अवबोधो यस्य स अर्धमानः । पुनः किं. ताम्रम् उपलक्षणत्वात् सुवर्णादि तद् अस्यति क्विपि ताम्राः । इः कामस्तम् अन्तयति क्षयं नयति क्विपि सौ "पदस्य" [२।१। ८९ ] इति तलोपे यन् पश्चाद विशे
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org