________________
यति उन्मन्थयति इति “गिन् चावश्यकाधमण्यें" [५।४।३६] इति णिनि ल-डयोlत्यये डली तिरस्कर्ता । कथम् ? प्रति लक्षीकृत्य, किं ? खः सूर्यः मश्चन्द्रः, समाहारे ख-मं रवि-चन्द्रम् , अर्थात् प्रतापेन यशसा च ॥४६॥
इति श्रीशत्रुञ्जय-रैवतकाभिवतीर्थद्वयं वर्णयित्वा साधारणजिन वर्णयतितथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४७॥ ['सिद्धयेवर्धमानस्तात्ता म्रोयन् न खमण्डेली ।
'प्रत्यशिल-भपोषे दीपदीपा कुरा यते" ॥४७॥1 [१ सिद्ध+या+इ=सिद्धये वर्धमानः सिद्धयेवर्धमानः प्रथमान्तम् । २ ता+अत्+तायू-तात्ता प्रथमान्तम्। ३ म्लायन्-लस्य रत्वे म्रायन्-प्रथमान्तम्। ४ 'म्रायन्' इत्यनेन सह 'न' शब्दस्य अन्षयः 'न म्लायन्' इति भावः । ५ ख+मण्डल+इन् खमण्डली प्रथमान्तम् । ६ प्र+तप्रती-प्रथमान्तम् । अनेन 'प्त' शब्दः सूचितः । ७ ऊह+श+लव-ऊहशल प्रथमान्तम् । ८ भ+प्र+उषेन-भप्रो
न्-भप्रोषे। ऊहशल+भप्रोषे-अत्य सन्धौ-ऊहशलभप्रोषे। प्रती ऊहशलभप्रोषे-प्रत्यूहशलभप्रोषे ९ दीप्रदीप+आ-तृतीयैकवचनम्-दीप्रदीपा । १० कु:+आस-कुराः । अनेन 'आ'वर्णः सूचितः । अनेन 'आ' इत्यनेन पूर्वोक्तस्य ‘प्त' इत्यस्य संयोगे 'आप्त' इति पदेन साधारणजिननामसूचनम् । ११ न+ता अता+ईर् अतेर् अतेः-अत्र विसर्गों न गण्यः-अते-प्रथमान्तम्। कुरास्। अते यते । अनुस्वारः उच्चारणीयः ।]
___व्याख्या-कुः शब्दो वाचकोऽस्ति । किं. आकारेण अपति शोभते क्विपि आः अधुना 'आ' इति सिद्धम्। पुनः किं० प्रतो प्कारं राति-आदत्ते-"आतो डः०" [५।११७६]इति डे प्रः, ईदृशस्तकारो विद्यते यस्य स प्रती "अतोऽनेकस्वरात्"[७।२।६] इनि, इयता 'आस' इति सिद्धम् । आतो जिनोऽस्तीत्यर्थः । किं न ता अता अलक्ष्मीस्ताम् ईरयति कम्पयति विपि अते:-रलेषाद् विसर्गाभावः। पुनः किं० 'वृधूङ वृद्धौ' [९५७] घनि-वों वृद्धिः । तथा 'मीगश् हिंसायाम्' [१५१२] भावे अनटि "मिग्मीगोऽखलचलि" [४।२।८] इत्याकारे मानं हिंसा । वर्षश्च मानं च वर्ध-माने या लक्ष्मीश्च इः कामश्च ययौ सिद्धे सम्पन्ने ययोः कमला-कामयोर्वर्ध-माने आनुपा यस्मात् स सिद्धये ०मानः-लक्ष्मीवृद्धिकृत् , कामक्षयकृच्चेत्यर्थः । पुनः किं० "ता मही-लदम्योः" [ ] इत्यनेकार्थवचनात् ता पृथिवी ताम् अतन्ति गच्छन्ति क्विपि तातो मनुष्यास्तान तायते इति क्विपि “य्वोः प्वय ०" [४।४।१२१] इति यलोपे तात्ता । पुनः किं० र-लयोरैक्यात् न म्लायन् सदैव बाह्यान्तरमलवियुक्तत्वात् । पुनः किं० खवत् सूर्यसमं 'ते लुग वा" [३।२।१०८] इति पूर्वपदलोपात् मण्डलं विद्यते यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org