________________
श्रीशत्रुञ्जयतीर्थ वर्णयित्वा श्रीगिरनारतीर्थ वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४६॥ ['सिद्धयेवर्धमानस्ताऽऽत्ताऽम्रायन् न ख-मं डली ।
प्रत्यूहशल-अभप्लोषेद्-'ईप्रदीपांकुराय ते ॥४६॥] [ १ सिद्धयेवा+ऋद्धमान=सिद्धयेवर्धमान इति । २ स्त+आत्त-स्तात्त। सिद्धयेवर्धमान+ स्तात्त-सिद्धयेवर्धमानस्तात्त ! संबोधनैकवचनम् । ३ अम्लायत् इति क्रियापदम् तस्य च 'न' इत्यनेन अन्वयः-न अम्लायत् इति भावः । लस्य रत्वे अम्रायत् । ०स्ताऽऽत्त+अम्रायत्-स्तात्ताम्रायत्+नस्तात्ताम्रायन्न इति । ४ ख-मं प्रति इत्येवं 'प्रति'पदम् ख-मपदेन संयोज्यम् । ख-मम् इति द्वितीयान्तम् । ५ 'लडी' इति पदस्य व्यञ्जनव्यत्यये 'डली' इति निष्पाद्यम् । ६ प्रति+ऊह+शड्=प्रति +ऊहशल्-प्रत्यूहशल । एतच्च कर्तृपदं प्रथमान्तम् 'न अम्लायत्' इति क्रियया अन्वितम् । ७ अ+भ+प्लोष+इन्ध-अभप्लोषेत् प्रथमान्तम् । ८ ई+प्रदीप ईप्रदीप!
९ अ+कु+राय-अकुराय । अत्र 'राय' इति 'रा' धातोः 'कत्वा'प्रत्य
धकभूतकृदन्तम्-रात्वा-ततः कुरात्वा-कुराय। अकुराय-अकुराय । अनुस्वारयुक्ते उच्चारणे अंकुराय इति । १० ते 'तुभ्यम्' अर्थे चतुर्यन्तम् । एवं प्रत्यूहशल+अभप्लोषेदु+ईप्रदीप+अंकुराय+ते-प्रत्यूहशलभप्लोषेदीप्रदीपांकुरायते इति संजातम् ।
व्याख्या-'षिधू गत्याम् ' [३२०] क्ते सिद्धो गतो यां लक्ष्मी कामक्रीडार्थम् ईयते गच्छति क्वनिपि येवा विष्णुस्तस्य ऋद्वो महान् मानः अहङ्कारो यस्मात् स सिद्धयेवर्धमानः श्रीनेमिः स एव 'स्तन शब्दे' [३२३] इति स्तनति धर्मदेशनां करोति विपि स्ता धर्मदेशकः सविशेषणस्य विशेष्यत्वविवक्षया सिद्वयेवर्धमानस्ता तेन आत्तः अङ्गीकृतस्तस्य सं० हे सिद्वयेवर्धमानस्तात ! श्रीगिरनारतीर्थ ! । तथा हे ईप्रदीप ! ई पृथिवी तस्यां प्रदीप इव प्रदीपः त्रिभुवनान्तरतमःक्षयकारित्वात् तस्य सं० । सम्प्रदानविवक्षया ते तुभ्यं कु ईषत् 'रांक आदाने'[१०६९]-दानेऽपि च केचित्-इति आदानार्थत्वाद् राणं पूर्व "प्राक्काले' [५।४।४७] इति क्वा, तस्य “अनञः क्त्वो यप्" [३।२।१५४] इति यपि कुराय, पश्चात् नञा योगे अकुराय सम्पूर्णमङ्गीकृत्य । ऊहं शटति जानाति क्विपि टस्य डत्वे, ड-लयोरक्याल्लत्वे ऊहशल विचारज्ञो मनुजो न अम्लायत्-कर्मावलेपे न म्लान इत्यर्थः । किं०मनुजः अः कृष्णस्तस्माद् भवति "क्वचित्" [५।१।१७१] डे अभः कामः तस्य प्लोषः' दाहः तेन 'लोकृ तर्क० [१७६६] इति पठितभासार्थाः' इति चुरादेर्णिचि इन्धयति दीप्यते क्विपि अभप्लोषेत् कामसुखमुक्त इत्यर्थः । पुनः किं. आवश्यकार्थस्य गम्यत्वात् , 'लड जिह्वोन्मन्थने' [१०३६] इत्यतो णिगि घटादेह्रस्वत्वे, अवश्यं लड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org