________________
५०
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोष दीपदीपाङ्कुरायते ॥४५॥ [सिद्ध ! येवं धमा नः स्तात् ताम्रायन्न-खमण्डली ।
प्रत्यूह ! शलभप्लोषे! दी|दीपाङ्करायते ॥४५॥] [१ सिद्ध !-'शत्रुजय'पर्वतस्य प्रसिद्ध नाम संबोधनम् । २ या+इव-येव-लक्ष्मीसमानः इति आशयः। ३ ऋद्ध+मा-ऋद्धमाः द्वितीयाबहुवचनम् । 'प्रति' पदस्यापि अनेन पदेन संबन्धः । ४ नः षष्ठी । सिद्ध+येव+ऋद्धमा+नः सिद्धये वर्धमानः इति जातम् । ५ स्तात् क्रियापदम् । ६ ताम्र+अस्-ताम्रास् प्रथमैकवचनम् । ७ अन्न खमन्+ड+लीः अन्न-खमण्डलीः । ताम्रास+ अन्न-खमण्डली:-सन्धौ ताम्रायन्नखमण्डली इति निष्पाद्यम् । ८ प्रति+ऊ+ह-प्रत्यूह ! संबोधनम् । ९ शलभ+प्लोषि-शलभप्लोषि । अस्य संबोधने शलभप्लोषे ! अत्र 'शलभ'पदेन शरभः बोध्यः। १० दीप्र+दीप+अङकुर+आयति-दीप्रदीपाङ्कुरायति । अस्य संबोधने दीप्रदीपाङकुरायते ।।
व्याख्या-"सिरिसिद्धसेहरो सिद्धपचओ सिद्धराओ अ ।" [ ] इति समयवचनात् सिद्धपर्वतः श्रीशत्रुञ्जयः, तस्य "ते लुग् वा" [३।२।१०८] इत्युत्तरपदलोपात् सिद्धस्तस्य सं० हे सिद्ध ! शत्रुञ्जय !। हे दीप्रदोषाङ्कुरायते ! दीप्रो.दीपस्तत्सदृशा अङ्कुरा नानाविधौषधीनां प्ररोहास्तेषाम् आयतिः श्रेणिर्विस्तारो यत्र, स दीप्रदीपाङ्कुरायतिस्तस्य सं० । “शत्रुञ्जये हि प्रदीपवद् दीप्यमाना नानाविधौषधयः सन्ति" [] इत्येवंवर्णनम् । तथा हे शलभप्लोषे ! र-लयोरैक्यात् शलभा अष्टापदास्तेषां 'प्लुषशू स्नेह-सिंचन०' [१५६२] इति स्नेहनार्थात् प्लुषेः "इकिस्तिव्०" [५।३। १३८] इति इप्रत्यये प्लोषिः स्नेहो यस्मिन् स शलभप्लोषिः, तस्य सं० । पर्वते हि शरभा वर्ण्यन्ते इति । तथा हे ऊह ! अवति दीप्यते कर्तरि क्विपि ऊर्दीप्यमानो "हो हस्ते दारुणि"[ ]इत्येकाक्षरवचनात् हो दारु यस्मिन् स ऊहः, तस्य सं० । शत्रुञ्जये हि
औषधीनां दीप्यमानानि सप्रभावाणि काष्ठानि सन्ति,औषधीस्थानत्वात् । त्वं नः अस्माकं ऋद्धा समृद्धा मा लक्ष्मीः ऋद्धमाः प्रति लक्षीकृत्य स्तात्-भव-इति क्रिया-कारकमीलनम् । त्वं किं०तानं धातुविशेषः उपलक्षणात् सुवर्णाद्यपि, तेन असति शोभते क्विपि ताम्राः। शत्रुनये हि सुवर्णादिसिद्धिहेतवो रसकूपिकाः सन्ति । त्वं किं. सेवकानां या ई लक्ष्मीरिव लक्ष्मीसम इत्यर्थः। पुनः किं० अन्नोत्पत्तिहेतुत्वात् कारणे कार्योपचारात् अन्नं मेघस्तथा खे नभसि मङ्गन्ति गच्छन्ति स्विपि खमङ्गः खेचराः द्वन्द्र अन्न-खमङ्गां मेघ-खेचराणाम् "डः शिवे ध्वनौ" [ ] इत्येकाक्षरवचनात् डो ध्वनिर्गर्जितरूपः परस्परालापरूपश्च तं लीयसे प्रिलष्यसीति क्विपि अन्न-खमण्डलीः। समासे पदान्तत्वात् “पदस्य" [२।१।८९] इति 'मङ्' इत्यस्य गलोपः। पर्वते हि मेघा वर्ण्यन्ते, सिद्धपर्वतत्वात् खेचरा अपि च स्युः ॥४५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org