________________
व्याख्या-आकारण, इकारेण यथासङ्ख्यं युक्तौ यो व च र् च वरौ दधाति "आतो डः०" [५।११७६] इति डे एवर्धस्तस्य सं० हे एवर्ध !। एतावता 'वारि' इति सिद्धम् । तेषां 'प्लुङ् गतौ' [५९८] प्लवते गच्छति विचि प्लोर्गच्छन् 'पे' इति वर्गों यस्य नाम्नि स प्लोषेः तस्य सं० हे प्लोषे ! “अदेतः स्यमोठेक्" [१।४।४४] 'वारिषे' इति सिद्धम् । तथा अकारेण युक्तो यो ण णकारस्तेन 'लड विलासे' [२५४] लडति विलसति क्विपि ड-लयोर्व्यत्यये सं० हे अण्डलू !। एतावता वारिषेणः तस्य सं० हे वारिषेण ! शाश्वतजिन ! । तथा हे कुराय ! को पृथिव्याम् उपचारात् तत्स्थलोकेषु "राः स्वर्णे जलदे धने" [ ] इत्येकाक्षरवचनाद् “आ रायो व्यञ्जने" [२।१।५] इत्यात्वे रा धनं तदेव कुरायस्तस्य सं० । यथा लोकानां धनरूपलक्ष्मीप्रद इत्यर्थः । अहं ते तव नखं जातावेकवचने नखानि “नखमुखमधिकाङ्ग" [ हैमलिङ्गानुशा०पुनपुं० श्लो० १२] इति लिङ्गानु०वचनात् नपुंसकत्वे अर्थात् पदनखानि । 'षिधू गत्याम्' [३२०] गत्यर्थात् कर्तरि ते सिद्धो गतः संश्रितः सन् अदीप्रदीपां दीप्यत इत्येवंशीलं दीपं दीपनशीलं किञ्चिद् वस्तु तद्वदाचरति "कर्तुः किप्" [३।४।२५] इति क्विपिधा तुत्वे शतरि दीप्रन् प्रतापवत्तया सूर्यादिदीप्रवस्तुवदाचरन् यः ई पृथ्वी पाति रक्षति क्विपि ईपा राजा तद्वदाचरम् अदीप्रदीपां नृपसदृशोऽभवमित्यर्थः । अत्र दीप्रदीपा इति शब्दादाचारेऽर्थे क्विपि ह्यस्तन्या अस्मदर्थैकवचने अवि रूपसिद्धिः । नखं किं० माः चन्द्रः अर्थात् अष्टम्याः तद्वत् 'णसि कौटिल्ये' [८५१] इति धातोः क्विपि भावे तलि नस्ता कौटिल्यम् । 'अत सातत्यगमने' [२७९] अतति गच्छति क्विपि मानस्तात् अष्टमीचन्द्रवदने कुटिलमित्यर्थः । पुनः किं० ताम्रायत् तमां रात्रिम् आख्याति तस्य.मेव प्रकटीभावित्वात् णिजि विपि तम् रात्रीवु(धु यो रः कामः कर्मधारयसमासे ततस्तस्य इयं "तस्येदम्" [६।३।१६०] अणि ताम्री सा चासौ आ लक्ष्मीश्च तात्रा ताम् । 'यतण निकारोपस्कारयोः' [१७३८] इत्यतो णिचोऽनित्यत्वात् तदभावे यतति निराकरोति क्विपि ताम्रायत् कामश्रीहृद् इत्यर्थः । पुनः किं० प्रतिकूला या ऊर्हिसा तां जहाति त्यजति "आतो डः०" [५॥११७६] इति डे प्रत्यूहा दयापरजनाः तेषां शाकं शरणं करोति णिजि क्विपि प्रत्यूहशल । ते किं. अः कृष्णस्तद्वद् भाति किपि अभाः, तस्य षष्ठयां "लुगातोऽनापः" [२।१।१०७] इत्यालोपे अभः शाश्वतत्वात् कृष्णसदृशस्य । लोके कृष्णोऽपि शाश्वत एवेति तत्साम्यम् ॥४४॥
एवं शाश्वतजिनचतुष्टयं वर्णयित्वा शाश्वतं श्रीशत्रुञ्जयतीर्थ वर्णयति-तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org