________________
૪૮
प्रतिहिंसा, ताम् ऊनयति क्षयं नयति इति क्विपि, तल्लोपे सौ "नाम्नो नो०"[२।११९१] इति नलोपे प्रत्यू । त्वं किं तास्तस्करास्तान् 'अटि हिंसाऽतिक्रमयोः' [६७४] इतिअट्टते हिनस्तीति क्विपि सौ 'पदस्य' [२।१।८९] इति टलोपे तात् । यतेः किं० शवन्ति हिंसन्ति जीवानिति क्विपि शषो हिंसकास्तेषु न भान्ति न शोभन्ते क्विपि शलभाः पश्चात् "धुटस्तृतीयः" [२।१।७६] इति षस्य डत्वे डलयोरक्याल्लत्वे शलभाः षष्ठयामेकवचने “लुगातोऽनापः" [२।१।१०७] इत्यालोपे शलभः श्लेषाद् विसर्गलोपः । पुनस्त्वं किं० प्लोबे दीप्रदीपाङ्कुराः । प्रकृष्ट उषा रात्रिः प्रोषा पूर्णिमा तस्याम् इन्धनं 'क्रुत्सम्पदादिभ्यः' ० [५।१।११४] क्विपि इत् दीपनं यस्य स प्रोषेत् चन्द्रस्तं स्वोद्दीपकतया ईयते गच्छति विपि प्लोषेदीः ईदृशो य इ: कामः स एव प्रदीपः तस्मिन् 'अङ्कुरं सलिले' [ ] इत्यनेकार्थवचनाद् अङ्करं जलं तद्वत् 'असी गत्यादानयोश्च' [९३२] इति चानुकृष्ट दीप्त्यर्थादसेः भाति इति क्विपि प्लोषे दीप्रदीपाङ्कुराः । यथा जलं प्रदीपं क्षयं नयति, एवं त्वमपि काममित्यर्थः ॥४३॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४४॥ [ 'सिद्ध येवैध ! मानस्तात् ताम्रायन्नखम् अण्डली । प्रत्यूहशल अंभ प्लोषे ऽदीपदीपां कुराय ते ॥४४॥
[१ सिद्धः प्रथमान्तम् । सिद्धः+एवर्ध-सिद्धयेवर्ध ! । २ एवर्ध ! संबोधनम् । आ+इ=ए। +र-ध-वर्ध । ए+वध ! एवर्ध । अनेन +आ-वा, र+इ-रि' एवंरीत्या 'वारि' पदम् सूचितम् । ३ मा+नस्+ता+अत्-मानस्तात् द्वितीयैकवचनम् 'नखम्' इत्यस्य विशेषणम्। ४ तमी-तम्-र +अ+ई ताम्री+आ ताम्रा+यत्-ताम्रायत् 'नखम्' इत्यस्य विशेषणम् । ५ नखम् द्वितीयैकवचनम्। ६ अ+ण-अण्+डल अण्डल संबोधनम् । अनेन 'ण' वर्णः सूचितः । नखम् +अण्डल नखमण्डल । अत्र ग्रन्थकारः 'नखमण्डल' इत्येव साधितवान् 'नखमण्डली' इति पद न साधितवान् ततः 'ई' शब्दः अत्र समाविष्टः कार्यः तेन च 'नखमण्डली' इति साध्यम्। चित्रकाव्यत्वेन अत्र 'ई' शब्दः पूरणीयः । ७ प्रति+ऊ+ह-प्रत्यूह+शल्क-प्रत्यूहशल्कू ततः प्रत्यूहशल प्रथमान्तम् । ८ अ+भा अभा तस्य षष्ट्येकवचने अभः । इदं ते-तव-इत्यस्य विशेषणम् । अत्र विसर्गो न गण्यः । ९ प्लु-प्लो+
-प्लोषे ! एकारान्तं संबोधनम् अनेन 'षे' इति सूचितम् पूर्वोक्तरीत्या सूचित 'वारि++ण' इत्येषां वर्णानां संयोगे 'वारिषेण' इति शाश्वतजिनस्य नाम सूचितम् । प्रत्यूहशल+अभ+प्लोषे प्रत्यूहशलभप्लोषे। १० अदीप्रदीपाम् ह्यस्तन्याः प्रथमपुरुषैकवचने रूपम् दीप्रदीप्रत्+ई+पा+अम्= दीप्रदीपाम् अटः आगमे-अदीप्रदीपाम् इति क्रियापदम् । कु+रै-कुरै-अत्र 'कुराय' इति पदसाधनाय 'अ' पूरणीयः-कु+र+अ-कुराय ! संबोधनम् । १२ ते-षष्टीविभक्तिः-'तव' अर्थसूचकं पदम् ।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org