________________
૩૭
[' सिद्धयेवर्द्ध ! मोsऽनैस्तात् तौऽम्राऽऽयैन् ! नख ! मण्डलीं । प्रत्यूह शैलभ प्लोवेदीप्रदीपाङ्कुरायते ||४३|| ]
[१] सिद्ध+या+ इ + वा + ऋद्ध = सिद्धयेवर्द्ध! संबोधनैकवचनम् । २ 'मा' निषेधवाची तस्य 'उहः इत्यनेन अन्वयः -त्वं मा उहः- मा पीडय इति भावः । ३ आन्+अस्=आनः अनेन 'आन्' इति वर्णद्वयं सूचितम् । ४ त + अट्ट=तात् इति प्रथमान्तम् अथवा संबोधनम् । ५ ता+अ+म्ला+ड =ताऽम्ल ! =ताऽम्र ! संबोधनम् | सिद्धयेवर्द्ध ! इत्यस्य विशेषणम् । ६ ई + विच् =ऐ, अ + ऐ =ऐ +अन् = आयन् संबोधनम् अनेन 'अन' इनि वर्णद्वयसूचनम् ततः आन्+अन='आनन' इति पदम् 'चन्द्रानन' नामकस्य शाश्वतजिनस्य सूचकं जातम् । ७ नख ! संबोधनम् । ८ मण्डलीं । अनुस्वारस्य अगणने मण्डली, अर्थस्तु द्वितीयाया बोध्यः अस्य श्लोकस्य उत्तरार्धस्थस्य द्वितीयपादस्थितस्य 'यतेः' इत्यनेन पदेन सह ‘मण्डली’ पदस्य अन्वयः । ततः 'यतेः मण्डलीम्' इति आशयो लब्धः । ९ प्र+दय्+ति= =ऊन्=प्रत्यू प्रथमायाः एकवचनम् । उहः इति 'उह्' धातोः अद्यतन्या द्वितीयैकपुरुषैकवचने क्रियापदम् प्रत्यू + उहः = प्रत्यूहः विसर्गस्य अगणने प्रत्यूह इति ज्ञेयम् । १० शष्+अभा= शडभाः डस्य लत्वे शलभाः अस्य षष्ठया एकवचने शलभः विसर्गस्य अगणने शलभ इति । इदम् 'यतेः' इत्यस्य विशेषणम् ११ प्र + उषा + इत् = प्रोषेत्+ई= प्रोषेदीः रस्य लत्वे विसर्गाभावे च प्लोवेदी + इ + प्रदीप + अङ्कुर+अस्= प्लोषेदीप्रदीपाङ्कुराः ततः अभीष्टं सिध्यति । यतेः इति षष्ठयन्तम्, विसर्गाभावे यते इति । ]
Jain Education International
व्याख्या- - आन् इति वर्णद्वयेन असति शोभते क्विपि आनस्तस्य संबो० हे आनः ! एतावता आन इति सिद्धम् । तथा ईकारम् ईयते गच्छति विचि गुणे ऐः ईदृशम् अन इति वर्णद्वयं यस्मिन् स आयन् तस्य सं० हे आयन् ! एतावता आनन इति सिद्धम् । "ते लुगू वा” [३।२।१०८] इति पूर्वपदस्य लोपे आननः श्रीचन्द्राननः शाश्वतजिनस्तस्य संबो० हे चन्द्रानन ! तथा हे सिद्धये वर्ध ! सिद्धा शाश्वती या लक्ष्मीस्ताम् 'इणूक् गतौ' [१०७५] इति एति गच्छति "मनू-वन्-क्वनिप्०" [५।१।१४७] इति वनि सिद्धयेवा शाश्वतजिनः स चासौ ऋद्धश्च सिद्धयेवर्धस्तस्य सं० । हे ताम्र ! ता ज्ञानरूपा लक्ष्मीः तया न म्लायति " क्वचित्" [ ५|१|१७१] इति डे ताम्रस्तस्य सं० । तथा 'उख नख ' [ ६४ ] इति गत्यर्थात् नखे : ' गत्यर्था ज्ञानार्थाः' इति नखति जानाति तत्त्वातत्वमिति अचि नखो ज्ञानवान् तस्य सं० हे नख ! त्वं यतेः जातावेकवचने यतीनां जितेन्द्रियाणां मण्डलीं श्रेणीं प्रति लक्षीकृत्य मा उहः मा अर्दये इत्यर्थः । रूपसिद्धिस्त्वेवम्'उहू तुहृ दुट्टै अर्दने' [५६१] इति उहेर्धातोरयतन्याः 'सिचि 'ऋदिच्छ्वि' [३।४।६५] इति अङ्प्रत्यये माङा योगे वृद्ध्यभावे इति । प्रत्यू प्रपूर्वाद् 'दयि दान - हिंसा - दहनेषु' [७९९] इति 'दयि' धातोः प्रदयनं क्तौ यलोपे “अतः " [४।३।८२] इति अल्लोपे १ 'अर्दय' इति अथवा 'अर्दयेः' इति उचितम् । २ 'सिवि' इति यैकपुरुषैकवचने 'सिवू' प्रत्ययः न तु 'सिच्' इति ।
उचितम् । अद्यतन्याः द्विती
For Private & Personal Use Only
www.jainelibrary.org