________________
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४२॥ [ 'सिद्धये वर्धमानः स्तात् ताम्रायन्नखमण्डली ।
प्रत्यूहशल-भप्लोषे दीदीपाडुरा ‘यते ॥४२॥] [१ चतुर्थ्यन्तम् । २ वर्धमाननामा शाश्वतजिनः । ३ क्रियापदम्। ४ ताम्+रायन् ताम्रायन् प्रथमान्तम् । ५ अखि+मण्डली । ताम्रायन्+अखमण्डली-ताम्रायन्नखमण्डली । ६ 'प्रति' शब्दः प्रतिकूलताद्योतकः । प्रति-ऊ+ह+शल+म+प्लोषे-सप्तमी। ७ दीप्रत्+ई+प+अङ्कुर+ +अस्-दीप्रदीपाकुराः प्रथमान्तम् । ८ इ+अत्-यत् अस्य चतुर्थ्या एकवचने यते, एतत् 'सिद्धये' इत्यस्य विशेषणम् ।]
व्याख्या-वर्षमानः शाश्वतजिनो नः अस्माकं सिद्वये स्तात्-भवतु-इति सम्बन्धः । किं० तमायां तम्यां वा भवम् भवेऽणि तामम् अन्धकारं तत् करोति णिजि, अन्त्यस्वरादिलोपे क्विपि ताम् यो “रैः स्वर्णे जलदे” [ ] इत्येकाक्षरवचनात् राः मेघस्तद्वदाचरति "कर्तुः क्वि०" [ ३।४।२५] इति क्विपि, धातुत्वे शतरि ताम्रायन् । कस्मिन् ? प्रत्यूहशलभप्लोषे । दोपदीपाङ्कुरा० 'अव रक्षण०' [४८९] इति . गत्यर्थाद् अवतेः अवनं क्विपि ऊर्ज्ञानं तद् नन्ति क्विपि “अहन्पञ्चम०" [४।१।१०७] इत्यत्र हनो वर्जनाद् दीर्घाभावे ऊहानि ज्ञानावरणीय कर्माणि तान्येव 'शल चलने' [९८४] इति शलन्ति इतस्ततो गच्छन्ति अचि शलानि गत्वराणि भानि नक्षत्राणि, तेषां प्लोषे विनाशे लक्षणया तिरोधाने इत्यर्थः । मेधैरपि नक्षत्राणि तिरोधीयन्ते इत्येवं साम्यम् । पुनः किं० खानि इन्द्रियाणि, तद्ग्राह्याः शब्द-रूपादयो विशेषा अपि खानि, तेषां मण्डलं समूहो विद्यते यस्य स "अतोऽनेकस्वरात्" [७।२।६] इनि खमण्डली, पश्चान्ना निषेधे अखमण्डली । पुनः किं० दीप्रन्ती दीपं किञ्चन वस्तु तद्वदाचरन्ती या ई शोभा तां पाति रक्षति डे दीप्रदीपः । तथाऽङ्कुरो नवोद्गतलतादेः प्ररोहो जरामरणरहितत्वेन सर्वदैव नवीनत्वात् तद्दसति शोभते क्विपि अङ्कुरा विशेषणसमासे दीप्रदीपाङ्कराः । सिद्धये किं० इ: कामः, तं न तायते न पालयति क्विपि नञो अत्वे इना सह यत्वे अग्रे “य्वोः प्वय" [४।४।१२१] इति यलोपे चतुर्थ्याम् "लुगातोऽनापः" [२।१।१०७] इत्यालोपे, यते संसारक्षयहेतवे चारित्ररूपायै इत्यर्थः ॥४२॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org