________________
व्याख्या-सिद्धां शाश्वती यां लक्ष्मीम् 'ईचू गतौ' [१२५२] इत्यत ईयते गच्छति "मन्-वन्-क्वनिप्०" [५।१।१४७] इति क्वनिपि सिद्धयेवा शाश्वतजिनः नः अस्माकं प्रत्यूहान् विघ्नान् शल्कयति खण्डीकरोति क्विपि सौ “पदस्य" [२।११८९] इति क्लोपे प्रत्यूहशल विघ्नखण्डकः स्तात्-भवतु-इति क्रियासम्बन्धः । जिननामाहसिद्धयेवा किं० ऋकारं दधाति "आतो डो०" [५।११७६] इति ऋधो मा वाचको यस्य स ऋधमाः पश्चाद् “अवर्णस्येवर्णादिना." [१।२।६] इति अरादेशः। एतावता 'ऋ' इति सिद्धम् । तथा 'अभ' इति वर्गद्वयं प्लवते गच्छति श्रयति स्वाग्रत इति विचि गुणे अभप्लोः ईदृशं ष्कारम् आयूर्वाद् 'इग्क् गतौ'[१०७५] इति धातोः ऐति गच्छति नामद्वारा श्रयतीति क्विपि तागमे अभप्लोषेत् । एतावता ऋषभः शाश्वतजिन इत्यर्थः । पुनः किं तया लक्ष्म्या न म्लानिं करोति णिजि म्लानयत्यति क्विपि सौ "नाम्नो नो." [२।१।९१] इति नलोपे ताऽम्ला । तथा पुनः किं० “ आ विधातरि मन्मथे " इत्यनेकार्थवचनात् आ विधाता, तथा "भवेदैर्विष्णुरैः शिवः [ ]इत्यनेकार्थवचनात् ऐः शिवः ० द्वन्द्वे आयौ इवाचरन् आयन् । तथा अः कृष्णः खः सूर्यः, मश्चन्द्रः एतेषां समाहारे अखमं, तदिव विष्णु-सूर्य-चन्द्र-सदृशमित्यर्थः । कृष्ण-शिव-विधयोऽप्येकमूर्तित्वात् शिवस्य नित्यत्वात् , नित्या एव मिथ्याभिर्मन्यन्ते इत्येतेषां साम्यम् । तथा अ-खमा अपि शाश्वता एव शाश्वतत्वात् तबिम्बस्य । पुनः किं० डलीः "डले 'विलासे'[२५५] लडति विलसति इति क्विपि लइ विलसत् 'ईङ्घ गतौ' [१२५२] गत्यर्थानां ज्ञानार्थत्वाद् अयनं "कुत्सम्पदादिभ्यः" [५।३।११४] इति भावे क्विपि ईनि यस्मिन् स डलीः । पुनः किं० ई लक्ष्मीस्तस्याः प्रदानं प्रदिः “उपसर्गाद् दः किः" [५।३।८७] इति 'कि' प्रत्यये “ इडे पुसि." [४।२।९४] इति आकारलोये ईप्रदिः सेवकानां लक्ष्मीप्रदानम् तदिच्छति क्यनि पूर्ववत् क्विवानयनादिकार्ये कृते ईप्रदोः ।तथा इः कामस्तं पैं शोषणे' [४७] इति पायति शोषयति “आतो डः०" [५।११७६] इति डे इपः । तथा ६ अङ्कुरं सलिले" [ ] इत्यनेकार्थवचनाद् अङ्कुरं जलं तद्वत् निर्मलं यत् 'इणकु गतौ' [१०७५] 'गत्यर्था ज्ञानार्थाः' इति एति जानातीति "तन्-व(व्य)धी०" [५।१।६४] इति णे आयो विद्वान्, तस्य भावे तलि आयिता ज्ञानिवं तं दीयते श्रयति क्विपि अङ्कुरायते । पश्चात् त्रयाणामपि विशेषणानां विशेषणसमासे । ईप्रदीपाङ्कुरायते ॥४१॥ १-'म्लानयति इति विवपि' इति उचितम् । २ 'तबिम्बस्य' इति पूर्णम् । ३ 'लड्' इति उचि. तम् धातोस्तथाभावात् । ४ आयस्य भावः अयता अतः अत्र 'आयता' उचितम् । ५ आयता+ई: =आयते:--'आयते'इत्यस्य साधनाय 'तं दीयते' स्थाने 'तद् ईयते' इति उचितम् अन्यथा आयते इति नैव स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org