________________
क्वि०" [३।४।२५] इति क्विपि धातुवे रायति "पैचादौ सर्वधातवः” इति [ ] वचनात् पचायचि रायस्तस्य सं० हे राय ! मेघसदृश !। कस्मिन् ? अवनं हिंसनम् "भ्यादिभ्यो वा" [५।३।११५] इति क्विपि, "मव्यवि०" [४।१।१०९] इत्यूटि ऊहिंसा, तस्यामूहो विचारः स एव र-लयोरैक्यात् शलभः शार्दूलस्तस्य प्लोषे विदारणे । ते तव, तानवदाचरतीति "क्यङ्' [३।४।२६] इति क्यङि "दीर्वत्रिव०” [४।३।१०८] इति दीर्थे, अचि ताम्रायं ताम्रसदृशं जातौ एकवचने नखं नः अस्मान् प्रति लक्षीकृत्य ई लक्ष्मीः तया इनान् स्वामिनः करोति णिजि,क्विपि,तल्लोपे सौ“अनतो लुप्"[१।४।५९] इति तल्लोपे, “नाम्नो नो०" [२।१।९१] इति'न'लोपे, ई लक्ष्मीस्वामिकर्तृ स्तात्भवतु -इति क्रिषासम्बन्धः । दीपो दीप्यमानो यो दीपस्तस्य अङ्कः क्रोडो मध्यमित्यर्थः, तद्वत् । 'अव रक्षण' [४८९] इति दीप्त्यर्थाद् अवतेः-अवति दीप्यते किपि ऊटि "क्लीबे" [२।४।९७] इति हस्वे दीप्रदीपाङ्कु ॥४०॥
इति चतुर्विशतिजिनान् स्वस्वनामकर्षणपूर्व वर्गयित्वा ऋषभादिशाश्वतजिनचतुष्टयी तेनैव प्रकारेण वर्णयति-तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४१॥ ['सिद्धयेवर्धमा नः स्तात् ताऽम्राऽऽयन्न खमं ईली ।
प्रत्यूहशल अभंप्लोषेद् ईदीपाऽङ्कुरायते ॥४१॥] [१ सिद्ध +या+ई+वन्-सिद्धयेवा प्रथमान्तम् । २ ऋधमाः प्रथमान्तम् सिद्धयेवा+ अचसाः-सिद्धयेवर्धमाः । 'ऋधमा' शब्देन 'ऋ'कारः सूचितः । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ ता+अम्ला-ताम्ला:-प्रथमान्तम्-ततः ताऽम्रा । ६ ऐ+आ-आया-द्वितीयाद्विवचनम् -आयौ ततः-कृदन्तप्रत्ययान्तम्-आयन् प्रथमान्तम् । ७ अ+ख+मम् प्रथमान्तम् । ८ लड् +ई-लडी ल-डयोः अक्षरयोः व्यत्यये लडीः इत्यस्मात् डलीः प्रथमान्तम्-ततः-डली। अत्र ताऽम्रा+आयन्+अखमम्-डली-'ताम्रायन्नखमण्डली' इति बोध्यम्। ९ प्रत्यूह+शल्क-प्रत्यूहशल । प्रथमान्तम् । १० अ+भ+प्लो++आ+इत्-अभप्लोषेत् अनेन 'षभ' इति वर्णद्वयसूचनम् । पूर्वो. क्तेन 'ऋ'कारेण 'षभ' इत्यस्य संयोगे 'ऋषभ' इति प्रथमस्य शाश्वतजिनस्य नाम निष्पन्नम् । ११ ई+प्र+दि-इत्यस्य कृदन्तरूपम् ईप्रदीः ततः ईप्रदी । १२इ+प-इपः । १३ अङ्कुर+आयता+ ई-अङकुरायते प्रथमान्तम् । अत्र 'ई:' इति क्विबन्तम् ततः 'ई' । अत्र प्रत्यूहशल अभप्लोषेत्+ईप्रदी+इप+अङ्कुरायते 'प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुरायते' इति निष्पन्नम् ।।
१ "नन्दि-ग्रहि-पचादिभ्यः ल्यु-णिनि-अचः" इति [३। १। १३४] काशिकासूत्रम् । तत्र च "अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः" इति । अयं ग्रन्थकारः सर्वत्र हैमं व्याकरणं समाश्रितवान् तथाऽपि अत्र इदं विधानं काशिकागतं समाश्रितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org