________________
४३
[२ । १ । ७६ ] इति कस्य गवं संज्ञाशब्दत्वान्न कृतम्, कृते तु न ज्ञायते 'अग्' इति वर्तते ‘अक्' इति । एतावता व्यालाङ्कः श्रीपार्श्वजिन इत्यर्थः । त्वं पुनः किं० ताश्चारास्तत्सदृशा रागादयोऽपि तास्तेषाम्, आमं रोगं करोति णिजि क्विपि ताम् । तथा प्रुषू 'लुष दाहे' [५३३] इत्यतः प्लोषणं घञि प्लोषो दाहः इति: अजन्यम् उत्पात इति यावत् द्वन्द्वे प्लोषेती ते करोति णिजि क्विपि लोषेत् य इः कामस्तम् 'ईरिक् गति - कम्पनयोः ' [ अदादि ५७ ] इति कम्पनाद ईर्तेर्णिगि ईरयति कम्पयति भयभ्रान्तं करोतीति यावत् क्विपि 'घुटस्तृतीयः' [२ । १ ।७६ ] इति तस्य दवे लोषेदी, श्लेषाद् विसर्गलोपः ॥ ३९॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ||४०||
[ सिद्धेयेवर्धमा ! नः स्तात् ताम्रायं नखमेण्डली' । मैहशलभप्लोषे दीर्घदीपाकु 'राय ! ते” ॥ ४० ॥ ]
[ १ सिद्धय ! संबोधनैकवचनम् । सिद्ध+या = सिद्धय इति । २ ईवर्धमा | संबोधनैकवचनम् । ई+व्+अ+र्+व+मा = ईवर्धमाः ! अनेन पदेन श्रीमहावीर जिनवाचकः 'वीर' शब्दः उत्पादितः । नः इति षष्ठी । सिद्धय + ईवर्धमाः + नः = सिद्धये वर्धमानः । ३ स्तात् इति क्रिया । ४ ताम्र+क्यङ्=ताम्रायम् प्रथमैकवचनम् 'नखम्' इत्यस्य विशेषणम् । ताम्रायम्-नखम्=ताम्रायन्नखम् । ५ अम्+डल =अण्ड ! संबोधनम् । ६ इ+इन = ईन्= ई - प्रथमैकवचनम् -'नखम्' इत्यस्य विशेषणम् । अण्डल् + ई = अण्डली । ताम्रायन्नखम्+अण्डली = ताम्रायन्नखमण्डली। ७ 'प्रति' इति 'प्रति' अर्थसूचकम् पदम् । ८ ऊ+ऊह = ऊह + शरभ + प्लोषे रस्य लत्वे ऊहशलभप्लोषे आदौ 'प्रति' पदसंयोगे प्रत्यूहशलभप्लोषे । ९ दीप्रदीपाङ्क +उ = दीप्रदीपाको पश्चात् हस्वत्वे - दीप्रदीपाकु 'नखम्' इत्यस्य विशेषणम् । अत्र अङ्क + ऊ =अङ्को इति जाते पश्चात् ह्रस्वत्वे दीप्रदीपाकु इति साध्यम् । १० राय ! संबोधनम् । ११ ते तव इत्यर्थे षष्ठ्यन्तम् । ]
Jain Education International
व्याख्या -- ईकारेण युक्तं वकारम्, अकारेण युक्तं रकारं च दधाति " आतो डः०” [५।१।७६] इति डे ईवर्धो 'मां मान- शब्दयोः ' [अदादि - ७९] इति शब्दार्थाद मिमीते क्विपि मा वाचको यस्य स ईवर्धमाः । एतावता वीरः तस्य सम्बो० हे वीर ! श्री वर्धमानः । हे अण्डल ! अः कृष्णस्तत्सदृशे यदनुस्वारवाचकं परब्रह्म तेन 'लड् विलासे' [२५४] इत्यतो ललति विलसति क्विपि अण्डल् तस्य सं० । तथा हे सिद्धय ! सिद्धा मुक्तास्तान् याति "आतो डः ०" [५/१/७६ ] इति डे सिद्धयस्तस्य सं० । तथा “राः स्वर्णे जलदे" [ ] इत्येकाक्षरवचनात् रा मेघः तद्वदाचरति इति "कर्तुः १ एतद् द्वितीयाया द्विवचनम् -प्लोष + इति=प्लोषेती 'करोति' क्रियायाः कर्म । २ 'प्लोषेत्'
पदस्य तकारस्य ।
For Private & Personal Use Only
www.jainelibrary.org